SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका (१।३२) - प्रतिषेधहेतुः। प्रतिषेध विषयव्यवहारस्य हेतुरिति तद्धेतुरित्युक्तः। तथाभूतानुपलम्भस्य स्वयं प्रतिषेधरूपत्वात् कारणव्यापकानुपलब्धी इत्युभयं हेतुः॥ इतीयं त्रिवि (धाप्युक्ता)नुपलब्धिरनेकधा। (तत्तद्विरुद्धाद्यगतिगति)भेदप्रयोगतः ॥३२॥ त्रिविध एव प्रतिषेधहेतुः। कारणस्य व्यापकस्यः स्वात्मनश्च उपलभ्यसत्त्वस्यानुपलब्धिः। सोऽयं प्रयोगवशेन तद्विरुद्धाद्यगतिगतिभेदेन त्रिविधः प्रोक्तः। तदगतिः तद्विरुद्धगतिः विरुद्धकार्यगतिश्च एतदेव तद्गतितद्विरुद्धगत्या चेति स्वभावस्यानुपलम्भनं प्रतिषेधहेतुः। न चायं प्रतिषेधस्यैव हेतु: किन्तु प्रतिषेधविषयो व्यवहारस्तस्य हेतुरिति कृत्वा तद्धेतुः प्रतिषेधहेतुरित्युक्तः। किं कारणं (1) न प्रतिषेधहेतुस्तथाभूतानुपलम्भस्य दृश्यानुपलम्भस्य स्वयं प्रतिषेध33a रूपत्वात् । हेतुर्व्यापकानुपलब्धिरिति कारणानुपलब्धिापका'नुपलब्धिश्च । उभयस्यापीति प्रतिषेधस्य प्रतिषेधव्यवहारस्य च ॥ इति एवमियमनुपलब्धिः । संक्षिप्य विधाप्युक्ता सती पुनरनेकधोक्ता। यथात्रैवाऽष्टधा प्राग विभक्ता। केन प्रकारेणेत्याह। तत्तद्विरुद्धत्यादि। तच्छब्देन प्रक्रान्तं स्वभावकारणव्यापकत्रयं गृह्यते। तेन स्वभावदित्रयेण विरुद्धन्त द्विरुद्धन्त्रि विधमेव भवति। स्वभावविरुद्धकारणविरुद्धव्यापकविरुद्धभेदाः । तद्विरुद्धमादिर्यस्य तत्तद्विरुद्धादि। आदिशब्देन विरुद्धकार्यस्य कारणविरुद्धकार्यस्य च परिग्रहः। तच्च तद्विरुद्धादी। तयोरगतिगती। तदगतिस्तद्विरुद्धादिगतिश्चेत्यर्थः । तयोर्भेदस्तेन प्रयोगस्तस्मात प्रयोगभेदतोनेकधोक्ता । तत्र तदगत्या तिस्रोनुपलब्धयः संगृहीताः स्वभावानुपलब्धिः कारणानुपलब्धिः व्यापकानुपलब्धिश्च। तद्विरुद्धगत्या तिस्र एव। स्वभावविरुद्धोपलब्धिः कारणविरुद्धोपलब्धिः व्यापकविरुद्धोपलब्धिश्च । आदिशब्दात् विरुद्धकार्योपलब्धिः कारणविरुद्धकार्योपलब्धिश्चेति । एवमष्टविधस्य प्रागुक्तस्यानुपलम्भस्य संग्रहो भवति। त्रिविध एव हीत्यादिना कारिकार्थमाह। उपलभ्यसत्त्वस्येत्युपलम्भयोग्यस्य हेतोरनुपलब्धिरिति सम्बन्धः । व्यापकस्य स्वात्मनश्चोपलभ्यसत्त्वस्येति वर्त्तते। सोयन्त्रिविधप्रतिषेधहेतु: प्रयोगवशेनानेकप्रकार उक्त इति सम्बन्धः। कथं प्रयोग वशेनेत्याह। तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगत इति। एतदेव तस्यागत्येत्यादिना विभज्यते । तस्यागत्येति स्वभावकारणव्यापकानुपलब्ध्या। तद्विरुद्धगत्येति स्वभावकारणव्यापकविरुद्धोपलब्ध्या। विरुद्धकार्यगत्येति विरुद्धकार्योपलब्ध्या।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy