________________
३. व्याप्तिचिन्ता
दिभेदप्रयोगः। यथोक्तं प्राक् ॥
.. घ. अविनाभावनियमः कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
इत्याविभेदप्रयोगरिति कारणविरुद्धकार्योपलब्ध्यादिभेदप्रयोगः। यथोक्तं प्रागनु पल ब्धि प्र भेद चि न्ता यां (११६)॥
यत एवं प्रतिबन्धवशाद् गमकत्वात्तस्मात् । कार्यकारणभावाद्वा नियामकात् साध्यसाधनयोरव्यभिचारसाधकात् स्वभावाद्वा तादात्म्यलक्षणानियामकात् । कार्यस्य स्वभावस्य च लिङ्गस्याविनाभावः साध्यधर्म विना न भाव इत्यर्थः । न चासाधारणस्य साध्याविनाभावोस्ति सन्देहहेतुत्वात् । अविनाभावे तु तन्निश्चायकेनैव प्रमाणेन तत्र धमिणि साध्यस्य सिद्धत्वात् कथमस्य गमकत्वं । तेन भट्रेन यदुच्यते ॥
'अविनाभावशब्दोप्य. . . . सकलार्थभाक् । नानमा योग्यसम्बन्धप्रतिपत्ति करोति नः ।। यदि तावद विनाभावो न स पश्चाद विशिष्यते। ततोऽसाधारणेप्यस्ति स इति स्यादकारणं ॥ . यो ह्यसाधारणो धर्मः स तेनैवात्मसात्कृतः ।
विना न भवतीत्येव ज्ञातो हेतुः प्रसज्यत' इति (1) तदपास्तं ।' अविनाभाव एव हि नियमः। साध्यं विना न भवतीति कृत्वा। 33b.
यद्येवं किमर्थं पुननियमग्रहणं (1) सत्त्यं (1) परमतनिरासार्थं । स ह्यविनाभावव्यतिरेकेणान्यं नियममिच्छति। यदाह भट्टः ।।
"एवमन्योक्तसम्बन्धप्रत्याख्याने कृते सति । नियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुना ।। कार्यकारणभावादिसम्बन्धानां द्वयी गतिः।। नियमानियमाभ्यां स्यान्नियमस्यानुमाङ्गता॥ सर्वेप्यनियमा ह्येते नानुमोत्पत्तिकारणं। नियमात् केवलादेवन्न किञ्चिन्नानुमीयते ॥ तस्मान्नियम एवैक: सम्बन्धोऽत्रावधार्यते। गमकस्यैव गम्येन स चेष्ट: प्राङ निरूपितः। नियमस्मरतः सम्यग् नियम्यकाङ्गदर्शनात् । नियामकाङ्गविज्ञानमनुमानन्तदङ्गिष्वि"ति (1)1 तदपास्तं ।।