________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३४) अविनाभावनियमोऽ(दर्श)नान न दर्शनात् ॥३३॥ अवश्यंभावनियम(ः कः परस्यान्यथा परैः)। अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥३४॥
कार्यकारणभावादिसम्बन्धाभावे नियम एव न स्यात्। अप्रतिबद्धानां सहभावनियमाभावात्। पाण्डुत्वादिमात्रस्य चाग्न्यकार्यत्वात्। देशकालाद्यपेक्षया च लिङ्गस्य गमकत्वान्नियम एवेति कथं कार्यकारणभावादिसम्बन्धेपि द्वयी गतिरुच्यते । अथ स्यात् (1) कार्यकारणभावादिसम्बन्धमभ्युपगच्छतापि यावत् साधनस्य साध्ये नियमो न निश्चितस्तावन्न साध्यप्रतिपत्त्यङ्गत्वन्तेन कार्यकारणभावे सत्यपि नियम एव सम्बन्धोभ्युपगम्यते। तस्यैव प्रतिपत्त्यङ्गत्वात्तद्वक्तुं स एवैकोनुमानाङ्गं शेषास्तद्व्यक्तिहेतव इति। तदयुक्तं (1) नियमो हि तदायत्ततैव (1) सा च तादात्म्यतदुत्पत्तिस्वभावैव (1) तेन तादात्म्यतदुत्पत्तिनिश्चय एव नियमनिश्चयो न पुनदर्शनादर्शनाभ्यान्नियमनिश्चयो व्यभिचारात् । ___ ननु यथा दर्शनादर्शनयोनियमनिश्चयंप्रति व्यभिचारस्तथा कार्यकारणभावनिश्चयेपि स्यादिति।
तदयुक्तं। विशिष्टाभ्यामेव दर्शनादर्शनाभ्यां कार्यकारणभावनिश्चयाभ्युपगमात् । एतच्चात्रैव वक्ष्यति। ___ यदप्यु म्वे के नोच्यते। “शतशो यादग्नौ धूमदर्शनन्तदन्यथानुपपत्त्या नियतोयं धूमोग्नाविति यन्नियमज्ञानमुत्पद्यते। तस्यानग्नौ धूमदर्शनम्बाधकं (1) न च तदस्तीति धूमस्याग्नौ नियम" इति। [मीमांसालोवा भट्रोम्बेकव्यार
तदयुक्तं। अग्निकार्यत्वाभावे ह्यनग्नौ धूमादर्शनस्यानुपलब्धिमात्रत्वेनाप्रमाणस्याबाधकत्वादनग्नौ धूमस्य शंक्यमानत्वेन कथमग्नौ बियमः (1) स्तस्मात् स्थितमेतत् (1)
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकाद् (1) अविनाभावनियमः" (1) कार्यकारणभावादिनिश्चयाच्चाविनाभावनियमनिश्चयो"ऽदर्शनान्न न दर्शनात्" (1) साध्याभावे हेतोरदर्शनमात्रान्नाविनाभावनिय
मनिश्चयः। न दर्शनात् । नापि साध्यसाधनयोः सहभावदर्शनात् । 34a तस्मात्तदुत्पत्त्यैवार्थान्तरस्यार्थान्तरेणाविनाभावः।
अन्यथेत्यासत्यान्तदुत्पत्तौ परैः साध्याभिमतः परस्यानात्माभूतस्य लिंगस्य कोऽवश्यम्भावनियमः। अनर्थान्तरे तु लिङ्गे तन्मात्रानुबन्धित्वं साध्यधर्मस्येष्टव्यमन्यथा कृतकत्वस्य यन्निमित्तन्तस्मादर्थान्तरमुद्गरादिनिमित्तं यस्या नित्य
५.३