SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ३. व्याप्तिचिन्ता . ८६ अपि च। अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः । न हि तस्मिन् निष्पन्नेऽप्यनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः। अयमेव भेदो भावानां कारणभेदो विरुद्धधर्माध्यासकारणभेदी वा। तौ चेद् न भेदको तदा न कस्यचित् कुतश्चिदपि भेद इति एक द्रव्यं विश्वं' स्यात्। ततश्च सहोत्पत्तिविनाशौ सर्वस्य च सर्वत्रोपयोगः स्यात्। अन्यथा एक- 432a मित्येव न स्यात्। नामान्तरं वा अर्थमभ्युपगम्य तथाभिधानात् । त्वस्येष्यते। तस्मिन् वा धर्मेऽवश्यम्भावनियमः कः। किमिव वाससि रागवत । निष्पन्ने वाससि कुसुम्भादि निमित्तो यो रागः पश्चाद्भावी। तत्र यथा नावश्यम्भावनियमस्तद्वदनित्यत्वस्यार्थान्तरहेतुत्व इष्यमाणे न केवलमयन्दोषोऽयमपरो दोष इत्याह। अपि चेत्यादि। अर्थान्तरनिमित्तो नित्यत्वाख्यो धर्मः स्यादन्य एव (1) तस्मात् स्वभावभूतात् कृतकादेस्तथाहि साध्यधर्मस्यार्थान्तरनिमित्तत्वाभ्युपगमे द्वयमिष्टं साधननिष्पत्तावनिष्पत्तिभिन्नहेतूकत्वं च। एतच्च नान्तरेण स्वभावभेदं घटते। यस्मात्र हि तस्मिन् साधनस्वभावे निष्पन्नेप्यनिष्पन्नो भिन्नहेतुको वा साध्यधर्मस्तत्स्वभावो युक्तः। पूर्वनिष्पन्नस्य भिन्नहेतुकस्य च लिङ्गस्य स्वभावो युक्तो यस्मादयमेव खलु लोकप्रतीतो भेदो भावानां यो विरुद्धधर्माध्यासो विरुद्धधर्मयोगः। निष्पत्त्यनिष्पत्ती चात्र विरुद्धौ धर्मी। तथायमेव भेदहेतुर्भेदस्य जनको यः कारणभेदः सामग्रीभेदश्चात्र कारणभेदो द्रष्टव्यः । एतेन भेदस्वरूपभेदकारणञ्चोक्तं ॥ भेदप्रतिभासस्तु भेदग्राहकः। तौ चेद् बिरुद्धधर्माध्यासकारणभेदौ न भेदकाविश्य (?ष्ये)ते। तदा न कस्यचिद्वस्तुनः कुतश्चिदर्थाद् भेद इत्येकन्द्रव्यम्विश्वं समस्तजगत् स्यात्। त्रैगुण्यस्याविशेषादैक्यं सर्वस्येष्टमेवेति चेदाह। ततश्चेत्येकत्वात् सहोत्पत्तिविनाशौ । एकस्योत्पादे सर्वस्योत्पादो विनाशे च विनाशः स्यादित्यर्थः। सर्वस्य च सर्वत्र कार्य उपयोगः कारणत्वं स्याद। सहोत्पत्याद्यनभ्युपगमे। सर्वम्वस्त्वेकमित्येव न स्यात्। अथोपयोगादिभेदेन परस्परभिन्नात्मतेष्यते भेदा (नां) नामान्तरम्वा स्यात् । बहूनामेकमिति संज्ञा कृता स्यात् । किङ्कारणम (1) अर्थ परस्परभिन्न मभ्युपगम्य तथाभिधानात्। एकमित्यभिधानात् । 1 Min-tha-dad-par-Sad-do. १२
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy