________________
प्रमाणवात्तिकस्ववृत्तिटीका ( १।३४ )
ननु अनर्थान्तरहेतुत्वेऽपि भावकालेऽनित्यतानिष्पत्तेः तुल्याऽतत्स्वभावता । ( न ।) अपूर्वस्वभावलाभो निष्पत्तिरुच्यतेऽनित्यता । स एव हि भावः क्षणस्थितिधर्मा सैवाऽनित्यता । धर्मधमितया वचनभेदे निमित्तमुत्तरत्र
वक्ष्यामः ।
६०
अथ स्यात् प्राक्प्रध्वंसाभावान्तर्वर्तिसत्तासम्बन्धोऽनित्यता । सा च कृतकनिष्पत्तिकाले निष्पन्नैव केवलं प्रध्वंसेन्नोत्तरकालमभिव्यज्यत इति ( 1 )
तदप्ययुक्तं । यतो यावत् प्रध्वसो नोत्पद्यते तावत् कथमन्तरालवर्त्त्यनित्यता । प्रध्वंसोत्पत्तावपि कथमन्तरालवत्तित्वमस्या: ( 1 ) कृतकस्वभावत्वम्वा भावस्यैवाभावात् ।
नन्वित्यादि परः । अनर्थान्तरहेतुत्वेपि विनाशकारणानपेक्षत्वेपि त्वन्मतेनानित्यतायाः । भावकालेऽनित्यतानिष्पत्तेः । भावस्य सत्ताकाले तस्या अनित्यताया अनिष्पत्ते र्भावादुत्तरकालमनित्यता भवतीति मन्यते । तुल्याऽतत्स्वभावा । यथार्थान्तर हेतुत्वेपि निष्पत्तिः स्यात् ( 1 ) तयोर्नानात्वन्तर्थाऽनर्थान्तरहेतुत्वेपीति' 34b तुल्यास्तत्स्वभावता ।
नेत्यादिना प्रतिविधत्ते । अपूर्वस्वभावलाभो निष्पत्तिरुच्यतेऽनित्यता च भावनिवृत्तिरूपा ततो निष्पत्तेरेवाभावात् कथं विरुद्धधर्मसंर्गः । यदि तर्हि नानित्यता वस्तु सती कथं साध्यसाधनयोस्तादात्म्यलक्षणः सम्बन्ध इत्याह । स एव हि भाव इति । क्षणे स्थितिर्या सैव धर्मो यस्येति । निवृत्तिधर्मा स्वभाव एवानित्यतोच्यते स एव साध्यः । तेन तादात्म्यं हेतुसाध्ययोर्व्यतिरिक्तार्थत्वनित्यता नीरूपा ( 1 ) तेन भावस्यानित्यता भवतीतीत्येवमादिभिर्वाक्यैर्भावस्य न किंचिद्रुप विधीयतेऽपि तु दृष्टं रूपं नास्तीत्ययमर्थोभिधीयते धर्मान्तराभिधाने भावनिवृत्त्यप्रतिपादनप्रसङ्गात् ।
यदि भाव एवानित्यता कथन्तर्हि शब्दस्य धर्मिणो नित्यता धर्म इति वचनभेद इत्यत आह । वचनभेदेपीत्यादि । धर्मधर्म तया यो वचनभेदो वाचकान्यत्वन्तत्रापि निमित्तमुत्तरत्र वक्ष्यामः ।
एतेन यदप्युच्यते ऽध्यय ना विद्ध कर्णो द्यो त क रादिभिः । यदि तुलान्तयोर्नामोन्नामवत्कार्येत्पत्तिकाल एव कारणविनाशः । यदि (? तदा) कार्यकारणभावो न स्याद् यतः कारणस्य विनाशः कारणोत्पाद ( : 1 ) एवं भाव एव नाश इति वचनादेवञ्च कारणेन सह कार्यमुत्पन्नमिति प्राप्तं । यदि च भाव एव नाशः प्रथमेपि क्षणे भावस्य न सत्ता स्यात् । विनाशाद् भावनिवृत्तिश्च विनाशो लोक
.