________________
३. व्याप्तिचिन्ता
स्वहेतोरेव तथोत्पत्तेः तां क्षणस्थितिधर्मतां तत्स्वभावं पश्यन्नपि मन्दबुद्धिः सत्तोपलम्भेन सर्वदा तथाभावस्य शङ्कया सदृशापरोत्पत्तिविप्रलब्धो वा न व्यवस्यति।
प्रतीतो न भाव एव। सर्वकालं च नाशसभावाद् भावस्य सत्वं स्यात् । अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकस्वभावत्वमनित्यत्वस्य न स्यात् । व्यतिरिक्ते च नाशे जाते तस्य क्षणस्य न निवृत्तिरिति कथं क्षणिकत्वमिति (1)
तदपास्तं (1) द्विविधो हि विनाश इष्यते भावनिवृत्तिरूपो भावश्च (1) तेनोत्पन्नो भावः कार्यङ्करोति कार्यकाले च कारणनिवत्तिरुपो विनाशो लोकप्रतीत एव (1) नायम्भावस्वभाव इष्यते (1) नापि कारणोत्पादाद् अभिन्नो भिन्नो वा नीरूपत्वात् केवलमस्य भेदाभेदप्रतिषेध एव क्रियते। तथा च वक्ष्यति (1)
"भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधत” (१।२८१) इति।
तेन व्यतिरिक्ते नाशे जाते क्षणस्य न निवृत्तिरित्यपास्तं। यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणे निवृत्तिस्तेनैकक्षणस्थायी भावो विनाशशब्देनोच्यतेऽयं च विनाशो भावरूपत्वात्साधनस्वभाव एव। कार्योत्पत्तिकाले च निवर्तेत इति कार्यभिन्नकालभावी न चास्य सर्वकालम्भावो भावस्यासत्वात् ।
यद्वा विनश्वरोऽयं विनाशोऽस्येति द्वाभ्यां धर्ममिवाचकाभ्यामविनाशिव्यावृत्तस्यैवैकस्य भावस्य भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामभिधानाद् भाव एव नाश उच्यते इति सर्वं सुस्थं।
यदि तर्हि भाव एवानित्यता तदा भावप्रत्यक्षीकरणे सापि प्रत्यक्षवेति कस्मान्न तथैव निश्चीयत इत्यत आह । तामित्यादि । क्षणस्थितिधर्मकां स्वभावमनित्यताख्यं पश्यन्नपि प्रत्यक्षीकुर्वाणोपि न व्यवस्यति। न निश्चिनोतीति सम्बन्धः । 35a
कस्मात् क्षणस्थितिधर्मतास्वभाव इत्याह। स्वहेतोरेव सकाशात्तथा क्षणस्थितधर्मतयोत्पत्तः। किं पुनः पश्यन्नपि न व्यवस्यतीत्याह। मन्दबुद्धिरिति । अनादिसंसाराभ्यस्तया नित्यादिरूपाविद्यावासनया मन्दा बुद्धिर्यस्य स तथाऽन्यथा दृष्टे वस्तुनि सर्वात्मनां किमिति न निश्चयः स्याद् (1) अनेन तु योगिनां सत्यपि सदृशदर्शने मन्दबुद्धित्वाभावात् क्षणिकत्वनिश्चयो भवतीत्युक्तम्भवति।
यदि त विद्यया नानित्यत्वाध्यवसायो विनश्यत्यपि भावे माभूदनित्यताध्यवसाय इत्याशंक्य बाह्ममपि भ्रान्तिबीजमाह। सत्तोपलम्भेनेत्यादि। यः सत्ताया एवोपलम्भो नाभावस्य तेन सत्तोपलम्भेन। ___ एतदुक्तम्भवति (1) उत्तरक्षणोत्पादकाल एव पूर्वक्षणविनाशात् पूर्वोत्तरयोः क्षणयोरभावेनाव्यवधानान्नैरन्तर्येणान्यत्वाग्रहात् सर्वदा द्वितीयादिक्षणेष्वपि