________________
प्रमाणवार्तिकस्ववृत्तिटीका (१॥३४)
सत्ताया एवोपलम्भेन तथाभावः पूर्वदृष्टस्य भावः सद्भावस्तस्य या शङ्का कदाचित्स एवायमित्येवंरूपा भूता भ्रान्तस्यापि स एवायमिति दर्शनाच्छंकेत्याह। तया विप्रलब्धो वंचितो न व्यवस्यति।
अग्निधमयोरपि तर्हि कार्यकारणभावनिश्चयो न स्यादभावाव्यवधानेनान्यत्वाग्रहादित्याह। सदृशापरोत्पत्तेरि त्यादि । दृष्टं च सदृशापरदर्शनं शुक्तिकादौ सत्यपि भेदभ्रान्तिनिमित्तं । एतच्च नै रा त्म्य सिद्धौ' विभक्तमिति तत्रैवाबधार्य ।
तेन सर्वात्मना पूर्वक्षणसदशस्यापरस्योत्पत्तिस्तया विप्रलब्धो न पूर्वक्षणादुत्तरक्षणमन्यत्वेनाध्यवस्यत्यपि तु स एवायमित्यत एव न पूर्वक्षणस्य विनाशप्रतीतिरुत्तरस्य चोत्पत्तिप्रतीतिः। अग्निधूमयोस्त्वेकान्तेन विस दृशत्वान्नैरन्तय सत्यप्यन्यत्वग्रहाद भवति कार्यकारणभावनिश्चयः । वा शब्दस्त्वनवक्लप्तिसूचनार्थः।
तेनायमर्थो यदि सत्तोपलम्भे व्यभिचारः सदशापरोत्पत्त्या वा विप्रलम्भः सर्वदास्त्येव विप्रलम्भ इत्येवं परः।
अथवा कि पुनः पश्यन्नपि न व्यवस्यतीत्याह। सत्तोपलम्भेन। पूर्वं यः सत्तोपलम्भेन प्रतीयमाने तद्भावशङ्का पूर्वदृष्ट भावारोपस्तेन विप्रलब्धः न व्यवस्यति । एवन्तादिक्षणदर्शन एवाध्यवसायः स्यात् । पूर्वं सत्तोपलम्भाभावादित्याशंक्याह। सदृशापरोत्पत्तिविप्रलब्धो वेति। वा शब्दश्चार्थे। प्रथमक्षणसदृशस्य द्वितीयक्षणस्योत्पत्त्या च विप्रलब्धो न व्यवस्यति । योगिनामपि तर्हि निश्चयो न स्यादित्याह। मन्दबुद्धिरिति। तेन बाह्याध्यात्मिकविप्रलम्भनिमित्तसद्भावात् पृथग्जनानां निश्चयः। योगिनान्तु सत्यपि सदृशदर्शने पटुबुद्धित्वान्निश्चयो भवत्येव।
तस्मात् स्थितमेतत् (1) क्षणस्थितिधर्मतां पश्यन्नपि सदृशापरोत्पत्त्या विप्रलब्धो न व्यवस्यतीति।
ननु भावस्य क्षणिकत्वे सति पूर्वोत्तरक्षणानां विभागेन प्रतिभासः स्यात् । अप्रतिभासनाच्च कथम्पश्यन्नपि न व्यवस्यतीत्यच्यते। अथ नीलाद्यव्यतिरिक्त35b स्वात् क्षणिकत्वस्य नीलग्रहे ग्रहः ।
युक्तमेतत् । किन्त्विदमत्र निरूप्यते (1) किमिदं नीलमक्षणिकमुत क्षणरूपमथ सन्तानः। तत्र यद्यक्षणिकन्तदा नीलप्रतिभासे कथं क्षणिकत्वप्रतिभासः । अथ क्षणरूपं। नन्विदमेवासिद्धमिति कथं नीलप्रतिभासे क्षणप्रतिभास उच्यते।
1 Pramāņavārtika 1 : 225.