________________
३. व्याप्तिचिन्ता
क्षणाप्रतिभासनाच्च न सन्तानरूपस्य नीलस्य प्रतिभासः। अथ नीलमात्रप्रतिभासे सति क्षणिकत्वप्रतिभासः। तदयुक्तं। प्रतिभासाप्रतिभासाभ्यां हि प्रत्यक्षस्य ग्रहणाग्रहणे। नान्यथा। तदाह। तद् यदपि गृह्णाति तत्प्रतिभासेनेति । न च क्षणानां प्रतिभास इत्युक्तं । ___यदि च नीलाद्यव्यतिरिक्तं क्षणिकत्वन्तदा नीलनिश्चये क्षणिकत्वस्य निश्चितत्वादनुमानस्य वैयर्थ्यं स्यात्। यस्त्वाह। एकज्ञानविषयत्वमेव क्षणिकत्वं पूर्वोत्तरज्ञानविषयत्वव्यावृत्तस्यैव चेदानीन्तनज्ञानविषयत्वस्य प्रतिभासनात् (1) पूर्वापरक्षणविलक्षण एव क्षणः प्रत्यक्षेणानुभूतनिश्चितोनुमानेन तु प्रत्यक्षवृत्तमेव परामृश्यत इति नानुमानस्य वैयर्थ्यमिति।
तदयुक्त। यतो यद्येकज्ञानस्याक्षणिकत्वन्तदार्थस्याप्यक्षणिकत्वं स्यात्। अथ तस्य क्षणिकत्वन्तत्कुतोऽवगतं। तस्याप्येकज्ञानविषयत्वादिति चेदनवस्थयैव प्रतिपत्तिः क्षणिकत्वस्य। अथ ज्ञानक्षणस्य प्रतिभासोऽभ्युपगम्यतेसावर्थक्षणस्य किन्नाभ्युपगम्यते। अन्यथैकस्यापि क्षणस्यानेकज्ञानविषत्वादनेकत्वं स्यात् । __भट्ट वा सु दे व स्त्वा ह। “पूत्तरक्षणानां विनाशेनाप्रतिभासनमेवाक्षणिकत्वप्रतिभासनमतोक्षणिकत्वग्राहकमेव सर्वम्प्रत्यक्षं केवलं क्षणिकत्वानुमानेन भ्रान्तं साध्यत" इति (1)
एतदप्ययुक्तं। प्रतिज्ञायाः प्रत्यक्षबाधितत्वेनानुमानस्योत्थानाभावात् । निर्विकल्पकस्यापि प्रत्यक्षस्य भ्रान्तत्वे सम्बन्धग्रहणाच्च। पश्यन्नपीति ग्रन्थविरोधश्च (1) तस्मादयुक्तमुक्तं। पश्यन्नपि न व्यवस्यतीति। ____ अत्रोच्यते। यथा ह्यर्थक्षणानां पौर्वापर्यन्तथा ज्ञानक्षणानामपि तेन पूर्वकेण ज्ञानक्षणेन पूर्वक एवार्थक्षणो गृह्यते नोत्तरः। उत्तरेणाप्युत्तर एव न पूर्व इति (1) एकस्मिन् ज्ञाने तयोरप्रतिभासनात् कथम्पूर्वस्मादयमन्य इति विभागेन प्रतिभासः स्यादिति चोद्यते। स्वरूपप्रतिभास एव च भावस्यान्यस्माद् विवेकप्रतिभासः सुमेरुभिन्नप्रतिभासवत्। स च क्षणस्याप्यस्त्ये वेति कथं न विवेकप्रतिभासः । दृष्टो दृश्यत इति प्रतीतेश्च। अन्यो हि दृष्टः स्वभावोन्यश्च दृश्यमानः। तथा हि प्रथमदशी दृश्यमानमेव स्वभावम्भावस्य पश्यति न तु दृष्टमित्यनयोभद एव । केवलमेकान्तसदृशयोः पूर्वापरक्षणयोरभावेनाव्यवधानाद् घटपटादिवद् विभागप्रतिपत्तिर्न भवति। नापि विभागेनाप्रतिभासादभेदोपि (।) न हि शुक्तिकायान्तदेवेदमस्मदीयं रजतमिति प्रवर्त्तमानस्य शक्तिकारजतयो'विवेकप्रतिभा- 3.6a साभावादभेदोपि। तस्माद् यथात्र निर्विकल्पके ज्ञाने शुक्तिकायाः स्वरूपप्रतिभास एवान्यस्माद विवेकप्रतिभासः। तथैकस्यापि क्षणस्य स्यात (1) केवलं पूर्वः क्षणः