________________
१४
प्रमाणवात्तिकस्ववृत्तिटीका (१।३४)
पता।
कस्मान्न विभागेन स्मर्यत इति यदि परं चोद्यं स्यात्तत्र चोक्तमेव सदृशापरोत्पत्तिविप्रलब्धैर्न स्मर्यत इति।
ननु तथापि क्षणो न प्रतिभासते। एकाण्वत्ययकालत्वेनैव भावस्याप्रतीतेः । न तु यद्यकस्मिन् क्षणेस्याप्रतिभासः कथमक्षणिकस्य प्रतिभासः प्रतिक्षणमप्रतिभासनात्। उत्पद्यमानस्य च भावस्य पूर्वापररूपविविक्तस्य प्रत्यक्षेण ग्रहणात् कथं क्षणिकत्वग्रहः। नाप्यक्षणिक: प्रतीयते पूर्वापरकालयोरप्रतिभासादेव तत्सम्बन्धितयेदानी प्रत्यक्षेप्रतिभासनात् पूर्वकालसम्बन्धिस्वभावस्येदानीमप्रतिभास एश्व विनाशोऽन्यस्वभावस्य प्रतिभास एवोत्पाद इति कथमुच्यते पूर्वोत्तरक्षणानां विनाशोत्पादाप्रतिभासनाद् अक्षणिक इति। नाप्यनेकक्षणरूप इदानीन्तनः कालोनेकक्षणसम्भवे गृहीतादिरूपताऽस्य स्यात् न व्यर्थता।
न हि प्रत्यक्षभाविना निश्चयेनेदानीमेवेदमस्तीति निश्चीयते (1) किन्तीदानीमस्तीति। अनुमानेन त्विदानीमेवास्तीति साध्यते ।
तस्मात् स्थितमेतत् (1) पश्यन्नपि न व्यवस्यतीत्यादि।
ननु यदि नित्यं सदृश इति प्रत्यक्षेण निश्चयः स्यात्स एवायमिति बुद्धिओन्तिर्यावता सर्वदा स एवायमिति प्रतीतिर्दृढरूपोत्पद्यत इति कथं भ्रान्तिस्तदाह भट्टः ॥
"नित्यं सदृश एवेति यत्र रूढा मतिर्भवेत्। स इति प्रत्यभिज्ञानं भ्रान्तिस्तत्रावकल्पते ।। इह नित्यं स एवेति विज्ञानं जायते दढं । तदस्तित्वातिरेकाच्च प्रामाण्यन्तस्य युज्यते॥ देशकालादिभेदेन तत्रास्त्यवसरो मितः ।
इदानीन्तनमस्तित्वं न हि पूर्वधियो गतं ॥" __न च सर्वदानुमानेन सदृशनिश्चयः। प्रत्यक्षप्रत्यभिज्ञाबाधितत्वात् प्रत्यभिज्ञाया अनुमानोत्थानाभावात् । न च प्रत्यभिज्ञाया अप्रामाण्यमितरेतराश्रयदोषात् । यतो न यावदप्रामाण्यमस्यास्तावन्नानुमानस्योत्थानं यावच्च नानुमानोत्थानन्तावन्नास्या अप्रामाण्यमन्योन्याश्रयदोष इति ।
अत्रोच्यते। स इत्यनेन पूर्वकालसम्बन्धी स्वभावो विषयीक्रियते। अयमित्यनेन च वर्तमानकालसम्बन्धी। अनयोश्च भेदो न च कथंचिदभेदो वर्तमान
1 Slokavartika: शब्दनित्त्यताधिकरणे ३७३, ३७४ (तदाऽस्तित्वाऽधिकत्वाच्च साधितं)