________________
३. व्याप्तिचिन्ता
६५
अन्त्यक्षणदर्शिनां निश्चयात्। पश्चात् तदनुपलम्भेन अनवस्थितिप्रतीनिः तदा निश्चयकालतयाऽनित्यता व्यवस्थिता। कार्योत्पत्तिसामर्थ्यकारणस्वभा
36b
कालभाविरूपैकस्वभावत्वाद् वस्तुनः । तस्माद् भेद एव प्रत्यभिज्ञाने सति भासत इति कथ' मनेन क्षणिकत्वानुमानबाधा।
यद्वा वस्तुनः पूर्वकालसम्बन्धित्वमिदानीमसदेव। पूर्वकालाभावात्। सत्त्वे वास्य वर्तमानकालसम्बन्धित्वमेव स्यान्न पूर्वकालसम्बन्धित्वं विरोधादित्युक्तं । तस्मात् पूर्वकालसम्बन्धित्वस्यासतो ग्राहकः स इति ज्ञानांशो भ्रान्तोऽन्यथा वस्तुनः स्पष्टबालाद्यवस्था ग्राहक: स्यान्न च भवति। तस्माद् भ्रान्तात् पूर्वदृष्टरूपारोपेण स एवायमिति ज्ञानात् कथमनुमानबाधा। यत्र चाक्षव्यापारस्तद्ग्राहकं प्रत्यक्षमुत्पद्यते। न च पूर्वकालास्तित्वेऽधुना क्व व्यापारोऽसन्निहितत्वात् । नापि तदभेदेन तत्कथं पूर्वोत्तरकालास्तित्वयोरैक्यग्राहकं ज्ञानं प्रत्यक्षं स्यात् । यदा च बालाद्यवस्थायां दृष्टः वृद्धावस्थायां प्रत्यभिज्ञायते। न तत्र वा प्रत्यभिज्ञाने नित्यत्वं प्रतिभासते। केवलं स एवायमिति तत्त्वमध्यवसीयते। न च तत्त्वम्बालवृद्धावस्थयोर्भेदात्। नापि तत्त्वग्रहणान्यथानुपपत्त्या नित्यत्वादिकल्पना। सदृशापरोत्पत्तिभ्रान्तिनिमित्तादप्युत्पत्तिसम्भवात्। लूनपुनर्जातेष्विव केशेषु । न चात्र केशत्वसामान्याद् भिन्नात् प्रत्यभिज्ञानं । तदिहेति बुद्ध्युत्पादप्रसङ्गात् । नाप्यभिन्नादन्यत्रानुगमे वाऽनुगतव्या वृत्तरूपयोः। परम्परासंश्लेषेणैकान्तभिन्नत्वात्। ततश्च त एवामी केशा इति प्रत्यभिज्ञा सदृशापरोत्पत्तिनिमित्तैवात एव भ्रान्तिः । तथा घटादिष्वस्याभ्रान्तत्वाशंकयानुमानस्योत्थानं युज्यत एव। नापीतरेतराश्रयत्वं यतो नानुमानेन प्रत्यभिज्ञाया अप्रामाण्यं क्रियतेऽपि तु ज्ञायते स्वहेतुत एवाप्रमाणरूपाया निष्पत्तेः। दृष्टो दृश्यत इति ग्रहात् । दृष्टत्वं हि न पूर्वम्भावस्यास्ति । तदा दृश्यमानैकरूपत्वात् । नाप्यधुनाऽत एव। नापि पूर्वकालसम्बन्धित्वं दृश्यमानस्येदानीं पूर्वमभावात्। तस्माद् दृष्टत्वमारोप्य ग्राहिका प्रत्यभिज्ञा भ्रान्तत्वादप्रमाणैवोत्पद्यते । नाप्यस्या अप्रामाण्यनिमित्तमनुमानस्योत्थानमपि तु साध्यप्रतिबन्धनिमित्तमतः प्रत्यभिज्ञाया बाधकं । विस्तरस्त्वयं प्रत्यभिज्ञाभङ्गविचारो नै रा त्म्य सिद्धौ कृत इति तत्रैवावधार्यः ।
तस्मात् स्थितमेतत् (।) तां पुनः क्षणस्थितिधर्मतां स्वभावम्पश्यन्नपि सदशापरोत्पत्तिविप्रलब्धः पर्वक्षणविनाठाविनिरना= =
पूर्वक्षणविनाशाविनिश्चयान्न व्यवस्यतीति । कथं पुनर्गम्यते सदृशापरोत्पत्त्या विप्रलब्धो न व्यवस्यतीत्यत आह । अन्त्येत्यादि। सदृशक्षणान्तराप्रतिसन्धायी क्षणोऽन्त्यक्षणस्त द्दर्शिनां नष्ट इति निश्च