________________
६१२
प्रमाणवात्तिकस्ववृत्तिटीका (१॥३३६) इत्यादिकमन्यदपि प्रत्यक्षानुमानाभ्यां प्रसिद्धिविपर्ययमागमाश्रयेण चानुमानेन वाधितमग्निहोत्रादेः पापशोधनसामर्थ्यादिकं।
तस्यैवंवादिनो वेदस्य सर्वत्र शास्त्रशरीरे प्रमाणविरोधमप्रतिसमाधाय सम्बन्धानुगुणोपायपुरुषार्थाभिधानानि च शास्त्रधानप्रदर्य अत्यन्तप्रसिद्धविषयसत्याभिधानमात्रेण प्रज्ञाप्रकर्षदुरवगाहगहने निरत्ययतां भावयितुकामो
215b
नाश इत्याह वेदः। तच्चायुक्तम (.........) द्विनाशस्येति प्रतिपादितं ।
एवमादिकमन्यदपि सदित्याह वेदः। किंभूतं (1) प्रसिद्धविपर्ययं। असत्त्वं हि सत्त्वविपर्ययः। प्रसिद्धो विपर्ययो यस्य (1) केन (1) प्रत्यक्षानुमानाभ्यां (1) तस्य सत्त्वमाह वेद इत्यर्थः। अग्निहोत्रादेः (1) आदिशब्दात् तीर्थस्नानादेः पापशोधनसामर्थ्यादिकमाह वेदः। अत्राप्यादिशब्दाद् धर्मोपचयादि. .........]7 गमाश्रयेणानुमानेन बाधितं। तथा हि (1) अधर्मो रागादिरूपस्तत्प्रभवं च कर्मत्यागमव्यवस्था। द्वयमप्येतदग्निहोत्रादिना न बाध्यत इति कथमधर्मस्य तेन विशुद्धिः। धर्मवृद्धिर्वा कथन्ततः (1) धर्मस्यालोभादितत्प्रभवकर्मस्वभावत्वात् । तीर्थस्नानादीनां चातत्स्वभावत्वात्। आदिशब्दादन्यदप्येवंजातीयकमयुक्ताभिधानं द्रष्टव्यं। ____ तस्यैव [ ....... 1] । वादिनो वेदस्य सर्वत्र प्रत्यक्षादिविषये त्रिविधेपि शास्त्रशरीरे शास्त्रप्रतिपाद्ये वस्तुनि। प्रमाणविरोधमसमाधायापरिहृत्य । शास्त्रे प्रवृत्त्यङ्गभूता धर्मास्तानप्रदर्य। ____के पुनस्ते धर्मा इत्याह। सम्बन्धेत्यादि। परस्परं पदार्थानां सङ्गतार्थता सम्बन्धः। शक्यसाधन उपायः। अनुगुणोपायः। यः शास्त्रे पुरुषार्थसाधन उक्त. . . . . . दृ] ष्टस्स पुरुषेण साधयितुं शक्यत इति यावत् । अभ्युदयनि:श्रेयसं पुरुषार्थः। सम्बन्धश्चानुगुणोपायश्च पुरुषार्थश्चेति द्वन्द्वः। तेषामभिधानानि।
ननु विरोधासमाधानादेव शास्त्रस्याग्राह्यत्वमुक्तन्तत्कि शास्त्रधर्माप्रदर्शनेनोक्तेन।
एवम्मन्यते (1) प्रत्यक्षानुमानविषये विशुद्धमुपदर्श्य कदाचिदन्यत्र सम्बन्धादिरहिते ब्रू [. . . . . . . . . . . ]3 दर्थ शास्त्रधर्माप्रदर्शनमुक्तं ।
एवं सम्बन्धाद्यभिधानानि च शास्त्रधर्मानप्रदात्यन्तप्रसिद्धविषयसत्यार्थताभिधानमात्रणेत्यत्यन्तप्रसिद्धो विषयो वहनेः शीतापनोदसामर्थ्य तस्याभिधानं सत्यन्तेन सत्याभिधानमात्रेण। प्रज्ञाप्रकर्षेणापि दुःखेनावगाह्यत इति प्रज्ञाप्रकर्षदुरवपाहः। तत एव गहनन्तस्मिस्तथाभूतेपि (विष) येऽत्यन्तपरोक्षेपीति यावत्।