________________
(३) जैमिनिमत-निरासः
बन्धकीमपि प्रागल्भ्येन विजयते। काचित् किल बन्धकी स्वयं स्वामिना विप्रतिपत्तिस्थाने दृष्टोपालब्धा। सा तम्प्रत्युवाच। "पश्यत मातः पुरुषस्य वैपरीत्यं (1) मयि धर्मपल्या प्रत्ययमकृत्वात्मीययोर्नेत्राभिधानयोर्जलबुबुदयोः करोति । तेन जरत्काणेन ग्राम्यकाष्ठहारकेण प्रार्थितापि न सङ्गता। रूपगुणानुरागेण किल मन्त्रिमुख्यदारकङ्कामयेऽहमिति" (1) एवंजातीयकमेतदपि वहनः शीतप्रती
निरत्ययतां सत्यार्थतां साधयितुकामो मी मां स को बन्धकीमपि प्रागल्भ्येन धाष्ट्येन विजयते (1) यादृशीञ्च बन्धकीम्विजयते तां कञ्चिदित्यादिना दर्शयति। बन्धकी दुश्चारिणी। स्वयं स्वामिना विप्रतिपत्तिस्थाने दृष्टेति विप्रतिपत्त्यवस्थायान्दृष्ट्वा परपुरुषेण सङ्गता त्वमित्युपालब्धा सती। सा तें स्वामिनं प्रत्युवाच। प्रत्यु [त्त . . . . . . . . . . ..] कथं प्रत्युवाचेत्याह। पश्यतेत्यादि। पार्श्वस्थाः स्त्रियो मात इत्यनेनामन्त्र्यन्ते (1) मातः पश्यत पुरुषस्य मदीयस्य स्वामिनो वैपरीत्यं। ननु पश्यतेति लोड्मध्यमपुरुषबहुवचनान्तमेतत् । ततश्च मातशब्दादपि बहुवचनमेव यक्तम्मातर इति (1) तत्रैके प्रतिपन्ना मातशब्देनामन्त्रितैकवचनान्तेन समानार्थो मातः शब्दोस्ति। वि[भात.] स्वर- [चालित प्रतिरूपकाश्च 'निपाता इत्यनेन न्यायेन । स चाव्ययत्वात सर्वेष वचनेष तुल्यरूप इति बहुवचनेनापि पश्यत शब्देन सम्बध्यमानो मातरित्येव प्रयुक्त इति। अन्ये तु पश्यत मातरः पुरुषस्येति पठन्ति। धर्मस्य साधनभूता पत्नी धर्मपत्नीति मध्यपदलोपी समासः। मयि धर्मपल्या प्रत्ययमकृत्वा आत्मीययोर्जलबु[बुद...])7 द्धाञ्जलबुबुद्योयोर्नेत्राभिधानयोः करोति प्रत्ययमिति प्रकृतं । नेत्रमित्यभि- 216a धानं ययोरिति विग्रहः। परपुरुषेणासंगते: कारणमाह । तेनेत्यादि। जरंश्चासौ काणश्चेति जरत्काणः। वृद्धकाणेनेत्यर्थः। तत्र जरद्ग्रहणेन वयोवैकल्यमुक्तं। परं रूपस्थानं चक्षुरिति तद्वैकल्यात् काणग्रहणेन वैरूप्यं। ग्राम्यग्रहणेन वैदग्ध्यादिगुण वैकल्यं। काष्ठहारकग्रहणेन कृच्छ्रजीवित्वात् दारिद्रयमुक्तं । तदेवं वृद्धत्वादिगुणयुक्तेन पुरुषेण सङ्गत्यर्थं प्रार्थितापि सती। नाहन्तेन सह सङगता प्राक् । रूपगुणानुरागेण । रूपं प्रासादिकता। गुणो वैदग्ध्यादिको धर्मः। रूपगुणयोरनुरागोभिलाषस्तेन हेतुना। मंत्रिमुख्यदारकं मन्त्रिप्रधानदारकं युवानं पुत्र। [मन्त्रिमु]ख्यश्चासौ दारकश्चेति विग्रहः। तमेवंभूतं दारकं कामयेहमिति कथमिदं सम्भाव्यते। तत्र वृद्धादिदोषचतुष्टयवैपरीत्येन मन्त्रिमुख्यदारके गुणचतुष्टयमुक्तं। रूपग्रहणेन प्रासादिकत्वं गुणग्रहणेन वैदरध्यादिः। मन्त्रिमुख्यग्रहणेनैश्वर्य। दारकग्रहणेन वयोगणः। एतच्च बन्धक्या धायात् प्रेरितमेव केवलस्वम्वच[नं न] तु युक्तियुक्तं । रूपादीनामेव कामहेतु