SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ (३) जैमिनिमत-निरासः ६११ भोक्ता (1) समवाधिकारणाधिष्ठानभावादित्याह वेदः । (1) तच्चायुक्तमित्यावेदितप्रायं। नित्यत्वं च केषांचिद् भावानामक्षणिकस्य वस्तुधर्मातिक्रमादयुक्तं। अप्रत्यक्षेणैव (? क्षाण्येव) सामान्यादीनि प्रत्यक्षाणि (1) जन्मस्थितिनिवृत्तिश्च विषमाः(1) पदार्थानामनाधेयविशेषस्य प्रागकर्तुः परापेक्षया जनक त्वं (1) निष्पत्तेरकार्यरूपस्याश्रयवशेन स्थानं (1) कारणाच्च विनाश यस्येति विग्रहः। ईदृशः किल पुमान् सुकृतदुष्कृतानां कर्मणां क्रमेण कर्ता। कर्मफलानां च भोक्ता। केन प्रकारेण भोक्ता कर्ता चेत्याह। पूर्वकर्मजनितसुखदुःखादिसम्बित्ति प्रति समवायिकारणभावेनात्मा कर्म फलानाम्भोक्ताः। तदुक्तं । "सुखदुःखादिसम्वित्तिसमवायस्तु भोक्तृते"ति। शभाशभकर्मकरणे ज्ञानप्रयत्नादिकं प्रति अधिष्ठानभावेनात्मा कर्मणा कर्ता। तदुक्तं (1) "ज्ञानयत्नाभिसम्बन्धः कर्तृत्वन्तस्य भण्यत" इति । आदिग्रहणात्। जडरूपस्याप्यात्मनश्चेतनायोगेन भोक्तृत्वं गृह्यते। तदुक्तम् (1) "भोक्ता च चेतनायोगात् चेतनं न स्वरूपत" इति। . तदेवं समवायिकारणाधिष्ठानभावादिनेत्याह वेदः। तच्चैतदयुक्तमित्यावेदितप्रायं। स्वयमेव शास्त्रकारेण नित्यानां कार्यकारणभावासम्भवन्दर्शयता। नित्यत्वं चायुक्तं केष (चद् भा) वानाम्वेद आहेति सम्बन्धनीयं । कस्मादयुक्तम् (1) अक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधेन वस्तुधर्मातिक्रमात् । अर्थक्रियासमर्थं हि वस्तु। तच्चार्थक्रियासामर्थ्यमक्षणिकस्य न सम्भवतीत्य सदेव (1) तत्कुतस्तस्य वस्तुधर्मः। अप्रत्यक्षाण्येव सामान्यादीनीति (1) आदिशब्दात् क्रियागुणादीनि प्रत्यक्षाणीत्याह वेदः। जन्म च स्थितिश्च नि(वृ)4 त्तिश्च ताश्च भावानाम्विषमाः प्राह वेदः। जन्मनो वैषम्येण विषयो हेतुर्भावानामुक्तः सूत्रे। __ तमेव विषमं हेतुमाह। अनाधेयस्येत्यादि। नित्यत्वादनाधेयातिशयस्य प्रागित्यर्थक्रियाकालावस्थायाः पूर्वमकर्तुः पश्चात् परापेक्षया सहकार्यपेक्षया। जनकत्वमाह वेदः। तच्चैतदयक्तमिति विस्तरेण प्रतिपादितं। निष्पत्तेरित्यादिना विषमस्थित्यभिधायित्वम्वेदस्याह। स्वहेतुतो निष्पत्तेनिष्पन्नत्वादकार्यरूपस्य भावस्याश्रयवशेन स्थानमाह वेदः। तच्चैतदयुक्तं सर्वनिरशंस्य नान्यबलेन स्थानमिति प्राक् प्रतिपादितं। विषमां निवृत्तिन्दर्शयन्नाह । कारणाच्च विनाशहेतोः सकाशाद् भावानाम्वि
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy