SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ६१० प्रमाणवात्तिकस्ववृत्तिटीका (११३३६) वहनः शीतप्रतिघातसामर्थ्यस्याभिधानं सत्त्यार्थम्प्रदर्य सर्व सत्यार्थमाह शास्त्रं शक्यपरिच्छेदेपि विषये प्रमाणविरोधाद् बहुतरमयुक्तमपि (1) नित्यस्य पुंसः कर्तुत्वं नित्यान्भावानतीन्द्रियान् । ऐन्द्रियान्विषमं हेतुं भावानां विषमां स्थिति ॥ (३३४) निवृत्तिश्च प्रमाणाभ्यामन्यद्वा व्यस्तगोचरं । विरुद्धमागमापेक्षणानुमानेन वा वदत् ॥ (३३५) विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः । सत्त्यार्थ प्र(ति)जानानो जयेद्धाष्टयन बन्धकीं ।। (३३६) अच्युतानुत्पन्नपूर्वापररूपः पुमान् कर्ता क्रमेण कर्मणाङकर्मफलानाञ्च दृष्टः प्रमाणेनोपरोधो वा। येन पुरुषेण तस्य पुरुषस्य प्रवृत्तिर्न युक्तेत्येवमागमलक्षणमुक्तमस्माभिः।। यः पुन मर्मी मां स कादिः प्राकृतपुरुषाणां विषयस्य वहनेर्यच्छीतप्रतिघातसामर्थ्यन्तस्याभिधानमग्निहिमस्य भेषजमित्येतद् वाक्यम्वेदैकदेशभूतं सत्यार्थ । दृष्टान्तत्वेनोपदर्थ सर्व सत्यार्थम्वेदलक्षणं शास्त्रमित्याह। किम्भूतं शास्त्रं शक्यपरिच्छेदे प्रमाणगम्येपि विषये प्रमाणविरोधाद् बहुतरमयुक्तमपि तदेवंभूतं शास्त्रं प्रतिजानानो मीमांसकादिर्जयेद् धाटयेन बन्धकीमिति वक्ष्यमाणेन सम्बन्धः। बहुतरमयुक्तमपीत्युक्तन्तद्दर्शयन्नाह। नित्यस्येत्यादि। वददित्येतत्पदं सर्वत्र सम्बन्ध (नीय।) नित्यः कर्ता पुरुषोस्तीत्येवन्नित्यस्य पुंसः कर्तृत्वम्वदच्छास्त्रं। तथा नित्यान् भावान् वदत्। अतीन्द्रियानप्रत्यक्षानर्थानद्रियान् प्रत्यक्षान् वदत्। तथा विषममयुक्तं हेतुं भावानां वदत्। तथा भावानाम्विषमां स्थिति। निवृत्तिञ्च भावानाम्विषमाम्वदत् । एतच्च वृत्तौ स्पष्टयिष्यामः। यथोक्तादन्यद्वा वस्तु व्यस्तगोचरं। व्यस्तः प्रतिक्षिप्तो गोचरोवकाशो यस्य तत्तथोक्तं। केन व्यस्तगोचरमित्याह। प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यां निरस्त (म) सम्भवमिति यावत्। तदेवम्भूतं वस्तु वदत् । तथागमापेक्षेणानुमानेन विरुद्धम्वदच्छास्त्रं। तदेवमनेकायुक्तार्थाभिधायकं शास्त्रं सत्यार्थ प्रतिजानानो वादी। जयेद् धाष्टर्येन बन्धकीं। किमकृत्वा प्रतिजानान' इत्याह। विरोधमित्यादि। शक्यविचारे वस्तुनि शास्त्रस्य विरोधमसमाधायापरिहृत्य पुरुषशास्त्रप्रवृत्तौ निमित्तं शास्त्रार्थञ्च सम्बन्धानुगुणोपायपुरुषार्थलक्षणमप्रदर्य प्रतिजानानः। अप्रच्युतेरित्यादिना व्याचष्टे। अप्रच्युतं पूर्व रूपं । अनुत्पन्नं चापरं रूपं
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy