________________
च. आप्त-चिन्ता
६०७ .
स्यात्। न हि स्वभावभेद इन्द्रियगम्यः स्वप्रतीतौ परिभाषादिकमपेक्षते। नीलादिभेदवत्। तदपेक्षप्रतीतयस्तु न वस्तुस्वभावाः (1) किन्तहि (1) साम यिका राजचिह्नादिवत् (1) यः सामयिकः स्वभावनियतो युक्तस्तस्येच्छावृत्तेः।
अत एव सङ्कतात् । स्वभावविशेषस्य व्यक्तौ च नियमः कुतः (1) स्वेच्छावृत्तिः सङ्केतः स इहैव कत्तुं शक्यते नान्यत्रेति नोपरोधोऽस्ति। स पुरुषैः स्वेच्छया क्रियमाणस्तमेव स्वभावं व्यनक्ति नान्यमिति न नियमोऽस्ति ।
यत्र स्वातंत्र्यमिच्छाया नियमो नाम तत्र कः। द्योतयेत् तेन सङ्केतो नेष्टामेवास्य योग्यतां ॥ (३३१)
इत्यत्यन्तरश्लोकः।
निरर्थों निष्फल: स्यात् । यतो न हि स्वभावभेदः स्वभावविशेष इन्द्रियगम्यः स्वप्रतीतौ परिभाषा दिकं। परिभाषा संकेतः। आदिशब्दात् संकेतस्मृत्यादिपरिग्रहः । किमिव (1) नीलादिभेदवत्। यथा नीलादिविशेषाः स्वप्रतीतौ संकेतादिकं नापेक्षन्ते तद्वत। तदपेक्षप्रतीतयस्तु संकेतापेक्षप्रतीतयस्तु ये। ते न वस्तस्वभावाः। न वस्तुनो निसर्गसिद्धाः विशेषाः (1) किन्तर्हि (1) सामयिकाः संकेतकृताः। किमिव (1) राजचिह्नादिवत्। यथा राज्ञा स्वप्रतीतये समिता ध्वजादयश्चिन्हभेदाः। आदिशब्दाद्धस्तसंज्ञादिपरिग्रहः । यश्च सामयिकस्स स्वभावनियतो युक्तः। निसर्गसिद्धो न युक्तः। किं कारणं (1) तस्य सामयिकस्य पुरुषस्य पुरुषेच्छया प्रवृत्तेः।
वैदिकस्य शब्दस्यार्थे निसर्गत एव स्वभावविशेषो नियतः स तु संकेतेन व्यज्यत इति चेद् (1)
आह। अत एवेत्यादि। यस्मादिच्छावृत्तिस्स ङ्केतोऽत एव कारणात् । संकेतादेकार्थनियतस्य स्वभावविशेषस्य व्यक्तौ नियतिः कुतः (1) नैव।
तद् व्याचष्टे (1) स्वेच्छावृत्तिस्संकेतस्स इहवाभिमतेर्थे कर्तुं शक्यते नान्यवेति नोपरोधोस्ति (1) न वाचकमस्ति। ततश्च स संकेतः पुरुषैः स्वेच्छया क्रियमाणस्तमेवैकार्थनियतं स्वभावं व्यनक्ति नान्यमिति न नियमोस्ति ।
यत्र संकेते स्वातन्त्र्यमिच्छाया' नियमो नाम तत्र कः। नैवास्ति नियम 214a इत्यर्थः। तेनानियतत्वेन कारणेनास्य वैदिकस्य शब्दस्येष्टामेवाभिमतार्थविषयामेव। योग्यतां संकेतो न द्योतयेदिति।
तदेवमपौरुषेयत्वं नागमलक्षणमिति प्रतिपादितम।