________________
६०६
प्रमाणवात्तिकस्ववृत्तिटीका (१।३३०) विवक्षया हि शब्दोऽर्थेषु नियम्यते न स्वभावतः। तस्स्याद (? तस्या)प्रतिबन्धेन सर्वत्रतुल्यत्वात् । यत्रापि प्रतिबन्धस्तदभिधानानियमाभावात् । सर्वशब्दैः करणानामभिधानप्रसङ्गात्। तस्माद् विवक्षाप्रकाशनायाभिप्रायनिवेदनलक्षणः सङ्केतः क्रियते। अपौरुषेये तु न विवक्षा न सङ्केतः कस्यचिदभिप्रायाभावा (1)दति न नियमो न तज्ज्ञानम् ।।
स्वभावनियमेऽन्यत्र न योज्येत तया पुनः । - यदि सङ्केतनिरपेक्षः स्वभावत एवार्थेषु शब्दो निलीनः स्यात् । उक्तमत्र (1) अप्रतिबन्धाद् नियत इति। अपि च। स्वाभाविके वाच्यवाचकभावे न पुनविवक्षया (1)
यथेष्टन्न नियुज्येत संकेतश्च निरर्थकः ( ३३०)।
तस्यापौरुषेयस्य शब्दस्य सा यथोक्ता एकार्थता कुतः (1) नैव।
___ विवक्षा होत्यादिना व्याचष्टे। विवक्षया हेतुभूतया शब्दोर्थेषु नियम्यते 213b ऽस्यैवार्थस्यायं वाचक इति । न तु स्वभावतः (1) किं कारणं (1) तस्य शब्दस्य
क्वचिद् वस्तुन्यप्रतिबन्धेन सम्बन्धरहितत्वेन कारणेन सर्वत्रार्थतुल्यत्वात् । यत्रापि शब्दस्य प्रतिबन्धः स्थानकरणेषु ततः शब्दानामुत्पत्तेरभिव्यक्तेर्वा । तेषामपि करणानां सर्वैः शब्दरभिधाननियमभावात । न हि सर्वे शब्दाः करणानामेवाभिधायकाः। करणाभिधायी पूनः शब्दः करणानि प्रतिपादयेदपीति सर्वग्रहणं । ___यत एवन्तस्माद् विवक्षाप्रकाशनाय संकेतः क्रियते (।) कीदृशः (1) अभिप्रायनिवेदनलक्षणः। वक्तुरभिप्रायप्रकाशनलक्षणः। अपौरुषेये तु शब्दे न विवक्षा नियामिका। नापि संकेतस्तत्प्रकाशनः। किं कारणं (1) पुरुषनिवृत्तेरेव कस्यचिदभिप्रायस्याभावादिति कृत्वा नैकार्थनियमो वैदिकानां शब्दानां। नियमे वा। न तज्ज्ञानं नैकार्थप्रतिनियमज्ञानं कस्यचित् । अर्थे स्वभावत एकार्थनियता वैदिकाः शब्दा न विवक्षातः ।
तदा स्वभावनियमेभ्युपगम्यमाने स शब्दोन्यत्रार्थे तया विवक्षया न वियुज्यते।
यदीत्यादिना व्याचष्टे। यदि संकेतनिरपेक्षः स्वभावत एव शब्दोर्थेषु निलीनो युक्तः स्यात् । उक्तमत्रोत्तरं (1) "क्वचिद्वस्तुन्यप्रतिबन्धादनियत" इति। ___ अपि च (1) स्वाभाविकेन निसर्गसिद्धे वाच्यवाचकभावेऽभ्युपगम्यमाने। न पुनर्विवक्षया यथेष्टं शब्दोन्यत्रार्थे नियुज्यते। न हि रूपप्रकाशने स्वभावतो नियतं चक्षुः शब्दप्रकाशने नियोक्तुं शक्यते। नियुज्यते च यथेष्टं शब्दः (1) तस्मान्न स्वभावनियतः। हस्तसंज्ञादिवत्। स्वभावतोर्थप्रतिनियमे शब्दानां संकेतश्च