________________
. च. प्राप्त-चिन्ता
६०५ ज्ञातावातीन्द्रियाः केन विवक्षावचनादृते । (३२८) पुरुषप्रणीते हि शब्दे कयाचिद् विवक्षया स ताङ् कदाचिद् के (न) चिन्निवेदयेदपीति विवक्षापूर्वकाणां शब्दानामर्थनियमः प्रतीयेतापि। अपौरुषेये तु विद्यमानोप्यर्थनियमः कथम्विज्ञेयः स्वभावभेदस्याभावात्। सति वा प्रत्यक्षस्य स्वयम्प्रतीतिप्रसङ्गात्। अप्रत्यक्षत्वेपि केनचित् ज्ञातुमशक्यत्वात्। न चास्तिकश्चिद्विशेषः। सर्वशब्दा हि सर्वार्थप्रत्यासत्तिविप्रकर्षरहिताः। ततस्तेषाम् (0)
विवक्षा नियमे हेतुः सङ केतस्तत्प्रकाशनः । अपौरुषेये सा नास्ति तस्य सैकार्थता कुतः ॥ (३२९)
इत्येकार्थद्योतनं नास्ति।
भवतु वा वैदिकानामेकार्थनियमस्तथाप्यतीन्द्रियमर्थनियमं पुरुषो ज्ञातुमशक्तः। तदेवाह। ज्ञाता वातीन्द्रिया अर्थाः केन पुरुषेण । न हि मी मां स कोतीन्द्रियार्थदर्शिनं कञ्चिदिच्छति। विवक्षावचनाद् ऋते (1) विवक्षायाः प्रकाश'नम्वचनम्विवक्षावचनन्तेन विना। वक्तुरभिप्रायकथनमन्तरेणातीन्द्रिया नैव केनचिज्ज्ञाता इत्यर्थः।
पुरुषेत्यादिना व्याचष्टे। कयाचिद् विवक्षया पुरुषेण प्रणीते उच्चारिते शब्दे स पुरुषस्ताम्विवक्षां कदाचित् क्वचिच्छ्रोतरि निवेदयेदिदं मया वाच्यत्वेन विवक्षितमिति। विवक्षापूर्वकाणां शब्दानामर्थे नियमः प्रतीयेतापि। अपौरुषेये तु शब्दे विवक्षापूर्व केनचिदप्रयक्ते विद्यमानोप्यर्थनियमः कथं ज्ञेयः (1) नैव कथंचित । किं कारणं (1) स्वभावभेवस्याभावात्। न हि वैदिकस्य शब्दस्य कश्चित् स्वभावो भिन्नोस्ति स एकत्राभिमतेर्थे नियतो यद्दर्शनादिष्टार्थप्रतीतिः स्यात्। सत्यपि वा स्वभावभेदे स स्वभावभेद: प्रत्यक्षो वा स्यादप्रत्यक्षो वा। न तावत्प्रत्यक्षः (1) किडकारणं (1) प्रत्यक्षस्य स्वभावस्योपदेशनिरपेक्षस्य। स्वयं प्रतीतिप्रसंगात्। अथाप्रत्यक्षः (1) अप्रत्यक्षत्वेपि प्रमाणान्तरस्याभावेन केनचिदप्याग्दर्शनेन ज्ञातुमशक्यत्वात् ।
अभ्युपगम्यैतदुक्तं । न चास्ति कश्चिद् विशेषो य एकार्थप्रतिनियतः। सर्वशब्दा हि सर्वार्थप्रत्यासत्तिविप्रकर्षरहिताः। ___ न हि केचिच्छब्दाः क्वचिदर्थे प्रत्यासन्ना विप्रकृष्टा वा भावतोऽपि तु तेषां शब्दानां सर्वार्थेषु स्वभावतस्तुल्यानामेकार्थनियमे वक्तुर्विवक्षा हेतुः। संकेतस्तत्प्रकाशन इति तस्याश्च विवक्षायाः प्रकाशनः संकेतः। तथा ह्ययमों (?र्थः) तेन विवक्षित इति संकेतादवगम्यते। सा च विवक्षापौरुषेये शब्दे नास्तीति कृत्वा