________________
६०८
प्रमाणवात्तिकस्ववृत्तिटीका (१।३३३)
(३) जैमिनिमत-निरासः वैदैकदेशसंवादित्वे न सर्वस्य प्रामाण्यम् यस्माकिलेदृशं सत्त्यं यथाग्निः शीतनोदनः ।
वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत् ॥ (३३२)
अन्यस्त्वपौरुषेयमागमलक्षणम्परित्यज्यान्यथा प्रामाण्यम्वेवस्य साधयितुकामः37b प्राह। अवितथानि वेदवाक्यानि। यत्राप्रतिपत्तिः। वेकवेशत्वाद् यथा (1) "अग्निहिमस्य भेषजमि"त्यादि वाक्यमिति (1)
तस्येदं (1) रसवत्तल्यरूपत्वादेकभाण्डे च पाकवत । शेषवद् व्यभिचारित्वात्क्षिप्तं न्यायविदेदृशं ॥ (३३३) स्वयमीदृशमा चार्ये णानुमानं नैयायिकशेषवदनुमानव्यभिचारमुद्भावयता
इदानीमेकदेशाविसम्वादनमागमलक्षणं दूषयितुमुपन्यस्यति। यस्मादित्यादि । किल शब्दोनभिप्रायद्योतक अग्निः शीतनोदनः शीतस्य निवारकः। एतेनाग्निहिमस्य भेषजमित्येतद्वाक्यं यथा सत्यं तथान्यदपि वाक्यमग्निहोत्रादिकं जहयादित्यादिकमवितथमेतत् साध्यं । वेदैकदेशत्वादिति हेतुः। एवमपरो वृद्ध मी मां स को ब्रवीत् । उक्तवान्। _ अन्यस्त्वित्यादिना व्याचष्टे। अन्यस्तु मीमांसकः । यथोक्तदोषोपहतत्वात् । अपौरुषेयमागमलक्षणं परित्यज्यान्यथा प्रामाण्यम्वेदस्य साधयितुकामः प्राह। अवितथानीत्यादि। यत्राप्रतिपत्तिरिति येषु वेदवाक्येष्ववितथत्वेन बौद्ध स्याप्रतिपत्तिस्तान्यवितथानीत्यनेन विशेषस्य पक्षीकरणात्। वैदेकदेशत्वादिति। सामान्यस्य हेतुत्वेनोपादानान्न प्रतिज्ञार्थंकदेशता हेतोरस्ति। यथा (1) "अग्निहिमस्य भेषजं" प्रतिपक्ष इत्यादि वाक्यव(त्) | आदिशब्दाद् द्वादश मासा सम्वत्सर इत्यादिवाक्यपरिग्रहः ।।
उत्तरमाह। तस्येत्यादि। तस्य वादिन इदं साधनं शेषवत्। कस्माद् (1) व्यभिचारित्वात्। ईदृशमनुमानं न्यायविदा आचार्य दिग्नागेन प्रमाण समुच्च ये प्रतिक्षिप्तमिति सम्बन्धः। किमिव शेषवदित्याह। रसवदित्यादि। यथा। स्वादितेन फलेन तुल्यरूपत्वादनास्वादित मपि फलं तुल्यमित्येतदनुमानं शेषवत् । तद्वत् । अदृष्टा अपि तण्डुलाः पक्वा एकभाण्डे पचनात्। दृष्टपक्वतण्डुलवदित्येवमेकभाण्डे च पाकवत्। यथैव तदनुमानं शेषवत् तथा मी मां स को क्त मिति।
स्वयमित्यादिना व्याख्यानं। ईदृशमनुमानं स्वयमाचार्येणासाधनमुक्तमिति