________________
५७४ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१०) लक्षणत्वाच्च । तथायमपि वर्णक्रमो पुरुषप्रयत्नं यदि नापेक्षेत, तदा निरालम्बः
स्वयं प्रकाशेत् । प्रत्यत्नेनापि न शक्येत, अतत्प्रच्छेदात् । क्वचित् शक्तौ सर्व524a स्तथा स्यात्, विशेषाभावात् । तद्भावभाविनोऽविशिष्टस्य चातत्कृतौ? सर्वत्र
कार्यकारणभावश्च निराकृतः स्यात् । अन्वयव्यतिरेकलक्षणत्वात् तस्य । लक्षणान्तरं वाच्यम्। घटादीनि च सर्वाणि वस्तूनि कृत्रिमाकृत्रिमानि प्रसजन्ति । तत्राप्येवं कल्पनायाः सम्भवात् । विशेषाभावाच्च । तानपि परादर्शनपूर्वकमेव
202b.
क्वचिद्देशादौ भवतीतीष्यते । तदा देशादिनियमे च दहनस्येष्यमाणे तस्यैव देशादेरिन्धनत्वात् । किं कारणं (1) दहनेत्यादि । दहनस्योपादानं क [.. ........
..........15 नपेक्षत्वे देशकालनियमायोगास्तथायमपि वर्णक्रमो हेतुभूतं पुरुषप्रयत्नं यदि नापेक्षेत। तदा निरालम्बो निराश्रयः पुरुषप्रयत्नानपेक्षः स्वयं प्रकाशेत वर्णक्रममुच्चारयामीत्येवम्पुरुषस्य प्रयलेपि न शक्येत वर्णक्रमः प्रकाशयितुं। कस्माद् (1) अत [त्प्र............
.....................] क्रमे पुरुषस्य शक्तिस्तदा क्वचिच्छक्ताविष्यमाणायां सर्वे वैदिकोपि वर्णक्रमस्तथा स्यात् पौरुषेयः स्यात् । कस्मात् (1) लौकिकवैदिकवर्णानुक्रमयोविशेषाभावात् । विषाद्यपनयनादिलक्षणस्य विशेषस्य लौकिकेष्वपि दृष्टः।
किञ्च तद्भावभाविनः पुरुष[.. ... ... ... ... . . . . . . . . . . . . . . . . . . . . . . विषा] 7 ' द्यपनयनादिना लौकिकवर्णक्रमादविशिष्टस्य च वैदिकवर्णक्रमस्यातत्कृतौ प्रकर्षेण कृतौ। सर्वत्रेति यत्रापि पुरुषकृतत्वमिष्टन्तत्रापि कार्यकारणभावश्च निराकृतः स्यात् । कस्माद् (1) अन्वयेत्यादि। तद्भावे भावोन्वयः (1) तदभावेऽभावो व्य ति रे कः (1) तल्लक्षणत्वात्तस्येति कार्य.............. .......................] कार्यता नेष्यते (1) तदा तद्भावभावित्वव्यतिरिक्त कार्यकारणभावस्य लक्षणान्तरम्वाच्यं । यद्विरहाद् वैदिकानां पुरुषप्रयत्नेन सह कार्यकारणभावो न स्यात् । न चान्यल्लक्षणं कार्यकारणभावस्यास्ति। अथ तुल्ये कार्यकारणभावलक्षणे लौकिको वर्णक्रमः कृत्रिम इष्टो थे[.. . .
................] : प्रसजन्ति। किं कारणं (1) तत्रापि घटादिष्वेवं कल्पनाया वैदिकशब्दक्रमवत् कल्पनायाः सम्भवात्। यथा पुरुषव्यापारेण स एव वैदिकः क्रमो व्यज्यत इति कल्पना। तथा घटादयोपीति।
1 Illegible.