________________
५७३
(२) कुमारिलमत-निरासः . विशेषानुक्रमवत् ।
न हि देशकालयोः स्थितिक्रमवान् हिमवद्विन्ध्यमलयानां वा बीजांकुरादीनां । स्वेच्छया क्रमरचना शक्यते कर्तुम् । तस्मात् पुरुषधर्मसंख्यातविकल्पानुक्रमे सति (भावात्) असति चाभावात्।
कार्यकारणता सिद्धेः पुंसां वर्णक्रमस्य च।
सर्वो वर्णक्रमः पुंभ्यो दहनेन्धनयुक्तिवत् ॥३१०॥ सतीन्धने दाहवृत्ते असति चाभावात् । अदृष्टेन्धनोऽपि न ह्यनिन्धनः, तद्देशकालनियमस्यायोगात्। नियमे सति तस्यैवेन्धनत्वात्, इन्धनस्य दहनोपादान
तद्भावस्तस्मात्। तथा हि (1) यथेच्छम्वर्णानां क्रमो व्यवस्थाप्यते। किमिव (1) कर्मविशेषानुक्रमवत् । यथा कर्मविशेषाणामाकुञ्चनादीनामिच्छा व्यवस्थितेः क्रमस्तद्वत् ।
202a न हीत्यादिना वैधय॑माह। देशकालयोरिति देशेस्थित'............
........मरचना शक्यते कर्तुं न ही ति सम्बन्धः। न हि हि म व त्स्थाने विन्ध्यो भवतु म ल य स्थाने विन्ध्यादि रित्येवं पूर्वमङकुरो भवतु पश्चाद् बीजात्तज्जनकमिति पुरुषेच्छया शक्यते विपर्यासः कर्तुं । वास्तु शक्यन्ते यथेच्छं विपर्यासयितुं। तस्मान्न व्यवस्थित
तत ए [व ........... ............... (३०८)
............... का]र्यकारणभूते विकल्पानुक्रमे सति वर्णक्रमस्य भावादसति च विकल्पानुक्रमे वर्णक्रमस्याभावात् । लौकिकवाक्येषु पुंसाम्वर्णक्रमस्य च कार्यकारणतासिद्धिः । पुरुषः कारणं वर्णानुक्रमः कार्यः। ततः कार्यकारणतासिद्धेः कारणादन्योपि वैदिकः सर्वो वर्ण [............. ................] ति सर्वो दहन इन्धनपूर्वक एवेति युक्तिस्तद्वत्। '
सतीत्यादिना व्याचष्टे । सतीन्धने दाहवृत्ते दह्यतेनेनेति दाहो दहन एवोक्तः । असतीन्धने दहनस्याभावात् । क्वचिद् दहनेन्धनयोः कार्यकारणभावसिद्धौ सत्यामदृष्टेन्धनोपि यस्यापि दहनस्येन्धनं न दृष्टं सापि [. . . . . . . . . . . . . . .
.............] 'त्। तदा तस्य दहनस्याहेतोर्देशनियमस्य कालनियमस्यायोगात्। सर्वत्र सर्वदा भावः स्यात्। अथ नियमेनैव
1 One side of the leaf is torn, about 32 letters in every line are missing.