________________
(२) कुमारिलमत-निरासः विशेषानुष्ठाने। अन्वयाच्च स्याद् वैद्यवणिग्व्यपदेशादिवत् ।
तविमे विशिष्टेन प्रयुज्यमाना मन्त्रास्ततोऽविशिष्टमेव स्वभावमासादयन्ति । तेनाविशेषेणैव फलदा (:) स्युः। यदा तु समयादेभ्यः फलन्तदायमदोषः समयकारस्य रुचेः फलोत्पत्तिनियमात् (1) स्वभाववृत्तयो हि भावमस्तन्मुखेन प्रसंगमर्हन्ति । न पुरुषेच्छावृत्तयस्तेषां कथंचिद् वृत्तेः।
यदपि प्रयोक्ता फलमश्नुत इति प्रयोगं समीहितार्थयोग्यस्योत्पादनं। संतानपारिणामनं वा पश्यामस्तदुभयम्विशेषजन्मनि स्याद् (1) अन्यथा (1)
अनाधेयविशेषाणां किंकुर्वाण: प्रयोजकः। येन ततः कश्चित्फलमश्नुतेऽन्यो न (1)
तदिति तस्मादिमे मन्त्रा अविशिष्टेन ब्राह्मणशूद्रादिना प्रयुज्यमानास्ततो ब्राह्मणादेरबिशिष्ट मेव स्वभावमासादयन्ति। तेन कारणेनाविशेषेणैव शूद्रादिषु फलदाः स्युरित्युपसंहारः । तदेवं मन्त्राणाम्भावशक्त्या फलोत्पादने (ना)यं दोषो यदा तु यथोक्तात् पुरुषसमयावेभ्यो वैदिकेभ्योन्येभ्यो वा मन्त्रेभ्यः फलमिष्यते। तदायमविशेषेण फलदाः स्युरित्ययमवोषः। किं कारणं (1) समयकारस्य मन्त्रप्रणेतू रुचेः फलोत्पत्ति नियमात् । समयकारस्यैवमभिरुचितं य ईदृशो ब्राह्मणव्यपदेशभागेवम्विधं नियममनुतिष्ठति तस्यैवाहं फलयोगेन प्रत्युपस्थितो नान्येभ्य इत्येवं रुचेः फलनियामकः। पर्यनुयोगः। तथा हि (1) स्वभाववृत्तयो भावाः पुरुषव्यापारानपेक्षा वस्तुस्थित्यैव कार्यकारिण इत्यर्थः । ते तन्मुखेन स्वभावद्वारेण प्रेसंगमर्हन्ति । यथा स्वभावविशेषादिहाप्येवं किन्न भवतीति। न पुरुषेच्छा वृत्तयो भावाः प्रसंगमर्हन्ति । किङ्कारणं (1) तेषां पुरुषाणां स्वेच्छानुविधायिनां यथाकथंचिद् वृत्तः। - यदपि विशिष्ट: प्रयोक्ता मन्त्रफलश्मनुत इत्युच्यते। तत्रापि प्रयोगमेवं लक्षणं पश्यामः। यथा समीहिते पुरुषार्थे योग्यो यो मन्त्रस्वभावस्तस्योत्पादनं । उत्पन्नस्याप्युत्तरोत्तरविशेषोत्पादनेन सन्तानपरिणामनमन्यथात्वम्वा तदुभयमुत्पादनम्विपरिणमनं वा विशेषजन्मनि विशेषोत्पत्तौ सत्यां स्यात्। अन्यथा विशेषानुत्पत्तावनाधेयातिशयानां मन्त्राणां। किं कुर्वाणः प्रयोजकः (1) नैव।
येनेत्यादिना व्याचष्टे । येन कारणेन ततो मन्त्रप्रयोगात् कश्चित् प्रयोक्ता ब्राह्मणः फलमश्नुतेऽन्यः शूद्रादि श्नुते । नोत्पादनम्मन्त्राणां प्रयोगः किन्त्वभिव्यक्तिः प्रयोगो यदीष्यते। साभिव्यक्तिः प्रगेव सा मा न्य चिन्ता यां' निराकृता।
1 In the margin.