________________
५५८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२६८) मोऽपश्यन्तश्च कथं भेदं प्रतिपद्येमहि । . योप्ययं नामभेदान्वयो लोके प्रतीतिभेदः सो सत्यपि जातिभेदे व्यापार
तन्नैवं । यस्मात् स खल्वित्यादि। सामान्यनिषेधान्निषिद्धैव जातिः (1) केवलमभ्युपगम्योच्यते। स खलु भवन्नपि जातिभेदस्त्रिधा इष्टः। आकृतिगुणशक्तिभेदे सति। गवाश्ववत् । गवाश्वस्येव गवाश्ववत्। तत्राकृतिभेदः संस्थानविशेषः स प्रतिव्यक्ति भेदवतीष्वपि गोष्वनुगामी विद्यते (1) नाश्वव्यक्तिषु । गुणभेदो (? दः) क्षीरादीनां रसवीर्यविपाकादिभेदेन स च समानजातीयासु व्यक्तिष्वनुगामी दृष्टः। न विजातीयासु। शक्तिभेदानुरूपकार्यसामर्थ्यलक्षणः । यथा गवान्दोहादिसामर्थ्य नाश्वानां। तदेवं समानजातीयव्यक्त्यनुगामिनामाकृत्यादिभेदानामुपलम्भात् कामं गवाश्वादिष्वस्तु जातिभेदो नैवं ब्राह्मणादिषु प्रतिनियत आकृत्यादिभेदोस्ति (1) येन जातिभेद: कल्प्येत। सकृच्च गवादिषु व्युत्पन्नो देशकालादिभेदेप्यनुपदेशमित्युपदेशमन्तरेणैनं जातिभेदं लोकः प्रतिपद्यते। अयङ्गौरयमश्व इति । नैवं ब्राह्मणादिभेदमनुपदेशं प्रतिपद्यते। तद्वदिति गवाश्ववत् । अनयोर्ब्राह्मणशूद्रयोः कंचिदपि गुणं विनियतं समानजातीयास्वेव व्यक्तिषु स्थितम्पश्यामः। गुण ग्रहणमुपलक्षणं। एवमाकृतिभेदं शक्तिभेदं च विनियतं न पश्यामः। अपश्यन्तश्चाकृत्यादिभेदं कथं शूद्रविप्रयोर्जातिभेदं प्रतिपद्येमहि । नैवेति यावत्। तथा ह्यध्ययनशौचाचारादिविशेषः सर्वो व्यभिचारी। यश्च गौरपिङ्गलकेशत्वादिलक्षण आकारभेदः कल्प्यते स ब्राह्मणेष्वपि केषुचिन्नास्ति। शूद्रेषु च विद्यते केषुचित्। ___ यदि न जातिभेद: विप्रशूद्रयोः कथन्तयं ब्राह्मणादिशब्दश्रवणाद् भिन्ना प्रतीतिर्भवतीति (1) ___ आह। योपीत्यादि। नामभेदान्वयो ब्राह्मणादिसंज्ञाविशेषहेतुको योप्ययं
प्रतीतिभेदो [बुद्धिभेदो अयं ब्राह्मणोऽयं शूद्र ]' इति प्रतीतिभेदोसत्यपि जाति197a भेवे व्यापारविशेषानुष्ठानाज्जपहोमादिक्रियाविशेषानुष्ठानात् स्यात्। अन्ब'
याच्चेति । तथाभूतव्यापारानुष्ठायिनः कुलादुत्पत्तेश्च । वैद्यवणिग्व्यपदेशादिवत्। यथा तुल्यजातीयेषु शुद्रेषु तस्य तस्य व्यापारविशेषस्यानुष्ठानादन्वयाच्च वैद्यादिव्यपदेशाः प्रवर्तन्ते (1) न तावता जातिभेदः। तद्वत् ब्रा'. ह्मणादिष्वपि स्यात्।
__1 In the margin.