________________
(२) कुमारिलमत- निरासः
प्रयोक्तृभेदान्नियमः शक्तौ न, समये भवेत् ॥ (२९८)
आधेयविशेष बाह्यनित्याभावास्तद्धेतोः स्वभावभेदे ततः समासादितातिशयत्वादन्यत्रान्यथा स्युः । नाभेदे ( 1 ) कारणाविशेषे कार्याविशेषात् । विशेषे तस्याहेतुकत्वप्रसंगादित्युक्तप्रायं ।
५५७
तदिम मन्त्राः स्वभावातिशयात् फलदायिनः । कार्या अपि न शूद्रादिप्रयोगे - प्यन्यथा स्युः । 1 शूद्रविप्राभिधानयोः पुरुषयोः स्वभावाभेदात् । न हि पुरुषच्छानुविधायिनो नामव्यवहारभेदात् । स्वभावभेदानुबन्धिनामर्थानामन्यथात्वमस्ति । तयोर्जातिभेद इति चेत् । स खल्वाकृतिगुणशक्तिभेदे इष्टो गवाश्ववत् । अनुपदेशं चैनं लोकः प्रतिपद्यते । न तद्वदनयोः कंचिदपि गुणं नियतं पश्या
क्व तर्ह्ययन्नियमः स्यादिति (1)
आह । समये भवेत् । यदा समयो मन्त्रस्तदा समयस्य कर्त्ता वस्तुस्वभावानपेक्षः समयं करोति । यथालोके ये ब्राह्मणाः प्रसिद्धास्तेभ्य एव प्रयोक्तृभ्यः फलन्दास्यामि नान्येभ्य इति स्यान्नियमः ।
आधेयेत्यादिना व्याख्यानं। आधेयो जन्यो विशेषो येषान्ते भावाः । तद्धेतोविशेषहेतोः स्वभावभेदे सति । ततो विशेषहेतोः सकाशादासादितातिशयत्वादेकत्रान्यथाभूतः पुनरन्यत्र कारणान्तरेऽन्यथा स्युर्न त्वभेदे कारणस्यान्यथाभावः । किं कारणं कारणाविशेषे सति कार्यस्याविशेषात् ।
अथ कारणाविशेषे कार्यस्य विशेषस्तदा विशेषे कार्यस्याप्यभ्युपगम्यमाने । तस्य विशेषस्याहेतुकत्वप्रसंगादित्युक्तप्रायं ।
तदिति तस्मादिमे मंत्राः कार्या अप्यनि' त्या अपि । हेतुकृतात् स्वभावभे- 196b दात् फलदायिनोऽपि न शूद्रादिप्रयोगेप्यन्यथा स्युरफलदाः स्युः । किं कारणं (1) शूद्र इति विप्र इति ब्राह्मण इत्यभिधानं संज्ञा ययोः पुरुषयोस्तयोर्बुद्धीन्द्रियदेहेषु स्वभावभेदाभावात् । प्रतिव्यक्ति स्वलक्षणभेदोस्तीति चेत् ( 1 ) न। तस्य ब्राह्मणेष्वपि प्रतिव्यक्ति सम्भवात् । जातिकृतस्तु भेदो नास्तीत्युच्यते ।
नन्वयं ब्राह्मणोऽयं शूद्र इति लोके नामभेदोस्ति । तथा सम्मानादिव्यवहारभेदश्च (।) ततः स्वभावभेदोवसीयत इति । चेद् (1)
आह । न हीत्यादि । पुरुषेच्छानुरोधिनो ब्राह्मणादिनामभेदात् सत्कारादिव्यवहारभेदाच्च स्वभावभेदानुबन्धिनां यथा कारणमुत्पन्नेन स्वभावभेदेनानुगतानामर्थानामन्यथात्वं । न हि स्वभावभेदोस्तीति सम्बन्धः ।
तयोर्ब्राह्मणशद्रयोः पुरुष' योर्जातिभेदोस्तीति चेत् ।