________________
५५६ प्रमाणवात्तिकस्ववृत्तिटीका (१।२९७)
(ग ) नित्यत्वे दोषाः सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी।
प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ॥ (२९७) यदि भावशक्त्यैव मन्त्राः सिद्धिप्रदा न ते कञ्चित् परिहरेयुः। यजमानमन्यं वा। न ह्यन्यं प्रति स्वभावोऽतद्भावो भवति। तस्य तेनानपकर्षणात् । अन्येन चानुत्कर्षणात् । केनचित् सह कार्यकारणभावायोगात्। प्रत्यासत्तिविप्रकर्षाभावात्। अत एवास्यासंस्कार्यत्वात् प्रयोक्तापि नास्ति (1) यतः प्रयोक्ता
फलमश्नुवीत् (?त)॥ 4b संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः ।
शयात् स्वभास्य सर्वदा तुल्यत्वात् ।
किं च (1) सर्वस्य पुंसः पातकादियुक्त स्यापि साधनं फलहेतवस्ते न मन्त्राः स्युः। समयनिरपेक्षा यदीदृशी मन्त्राणाम्भावशक्तिः। अथ स्याद् यजमानेनैव प्रयुक्ताः फलदा इति (1)
अत आह। प्रयोक्तुर्भेदो विशेषो यजमानत्वन्तदपेक्षा च । नासंस्कार्यस्य मन्त्रस्य युज्यते। यदि भावशक्त्यैव समयानपेक्षया मन्त्राः फलदा न ते मन्त्राः फलदानं प्रति कञ्चित् पुरुषं परिहरेयुः। अन्यं वा शूद्रादि कं। यस्मान ह्यन्यमयजमानं प्रति स्वभावो मन्त्राणां कार्यकरणस्वभावोऽतदभावो भवत्यजनकस्वभावो भवति। कि कारणं (1) तस्य जनकस्वभावस्य तेनाब्राह्मणेन चानपकर्षणात् । अखण्डनात्। अन्येन च यजमानादिनानुत्कर्षणात्। अतश्च कारणात् केनचित् पुरुषेण सह मन्त्राणां कार्यकारणभावयोगः। तदयोगाच्च यथाक्रम ब्राह्मणेनान्येन च मन्त्राणां प्रत्यासत्तिविप्रकर्षाभावात् सर्वस्य साधनं स्युरिति । अत एव न नित्यत्वादेवास्य मन्त्रस्यासंस्कार्यत्वात् प्रयोक्ता। कार्ये नियोक्ता कश्चिद् ब्राह्मणोन्यो वा नास्ति यतः प्रयोक्ता मन्त्रसाध्यं फलमश्नवीत लभेत ब्राह्मण एव नान्यः। तथा हि यथा शूद्रादिरपाठको न किंचित्करोतीति न प्रयोक्ता तथा ब्राह्मणोपि (1) ततः संस्काराप्रतिपत्तेरिति ।
किञ्च संस्कार्यस्याप्याधेयातिशयस्यापि भावस्य वस्तुभेदो हि कारणभेदो हि भेदको न च ब्राह्मणशूद्रादीनां स्वभावभेद: परमार्थतोस्ति। केवलं लोकव्यवहारकृतो विप्रशूद्रादिभेदः। तेन लोकव्यवहारभिन्नानां ब्राह्मणादीनां प्रयोक्तणाम्भेदानियमो मन्त्रशक्तौ न सम्भवति । येन ब्राह्मण एव फलमासादयेन्न शूद्रः ।