________________
प्रमाणवार्तिकस्ववृत्तिटीका (१।३०० )
प्रयागो यद्यभिव्यक्ति: सा प्रागेव निराकृता ।। (२९९)
न हि नित्यानां काचिदभिव्यक्तिरित्युक्तं यतोभिव्यंजकः प्रयोक्ता स्याद् (1) व्यक्तिश्च' बुद्धिः सा यस्मात् स फलैर्यदि युज्यते । स्याच्छ्रोतुः फलसंबन्धो वक्ता हि व्यक्तिकारणं ॥ (३००)
न हि शब्दस्यान्यतः स्वरूपपरिणामो व्यक्तिर्नावरणविगमनं ( 1 ) किन्तु तद्विषया प्रतीतिः (।) अश्रूयमाणेऽव्यक्तव्यपदेशात् । तत्र यदि बुद्धिहेतुर्वक्ता स्यात् । तत्तुल्यं श्रोतर्यपीति । सोपि फलं वक्तृवदश्नुवीत् ( ?त ) । न हि वक्तुः कश्चिदन्यस्तद्भावोन्यत्र तद्बुद्धिहेतुत्वात् । परोपाधिबुद्धिः श्रोतुर्न वक्तुरिति विशेष इति चेत् ( 1 ) कः पुनरुपयोगो वक्तुः श्रोतरि येनोपाधिरिष्यते । ततः शब्दश्रुतिरिति चेत् ( 1 ) ननु तदेवेदं पर्यनुयुज्यते । कथं तत इत्यसम्बन्धाद् विषयोपन
५६०
तयाचष्टे । न हि नित्यानाम्पदार्थानां काचिदभिव्यक्तिरित्युक्तं । यतः कारणादाभिव्यञ्जकः शब्दस्य प्रयोक्ता स्यात् ।
भवतु वाभिव्यक्ति: ( 1 ) सा च तावद् योग्यतोत्पत्तिनित्यत्वात् । किन्तु व्यक्तिरच शब्दविषया बुद्धिः सा यस्मात् पुरुषात् प्रयोक्तुः स पुरुषो मन्त्रफलैर्यदि युज्यते । स्याच्छोरपि फलसम्बन्धः । योन्येन पठ्यमानं मन्त्रं श्रृणोति केवलं । तस्यापि मन्त्रफलेन योगः स्यान्न तु वक्तुरेव । यस्मात् वक्ता हि व्यक्तिकारणं ज्ञानकारणमतश्च फलेन प्रयुज्यते । तच्च मन्त्रविषयज्ञानकारणत्वं श्रोतुरपि 197b तुल्यमिति सोपि वक्तैवेति कस्मान्न फलेन युज्यते ।
न हीत्यादिना व्याचष्टे । न हि नित्यस्य शब्दस्यान्यतः कारणात् स्वरूपपरिणामः स्वरूपान्यथात्वम्व्यक्तिः । नाप्यावरणविगमनं व्यक्तिः । नित्यस्यावरणानुपपत्तेः । किन्तु तद्विषया शब्दविषया प्रतीतिर्बुद्धिरभिव्यक्तिः । किं कारणम् (1) अश्रूयमाणे शब्देऽव्यक्तव्यपदेशात् । न ह्यनुपलभ्यमानः शब्दोभिव्यक्त इत्युच्यते । तत्रैवं व्यवस्थिते यदि शब्दविषयबुद्धिहेतुर्वक्ता स्यात् । तदा तच्छब्दविषयबुद्धिहेतुस्वभाववक्त्तृलक्षणं श्रोतर्यप्यस्तीति सोपि श्रोता मन्त्रप्रयोगसम्भवमभिमतं फलम्वक्तृवदश्नुवीत । न हि वक्तुः कश्चिदन्यस्तद्भावो वक्तृत्वभावोन्यत्र तबुद्धिहेतुत्वात् । शब्दबुद्धिहेतुत्वात् । अतो नास्ति वक्तृश्रोत्रोः शब्द ज्ञानहेतुत्वे विशेष इति तुल्यः फलसम्बन्धः स्यात् । परो वक्ता । उपाधिर्हेतुर्यस्या बुद्धेः । सा परोपाधिबुद्धिः श्रोतुर्न वक्तुः परोपाधिर्बुद्धिः । इति हेतोर्वक्तृश्रोत्रोविशेष इति चेत् । कः पुनरुपयोगः सामर्थ्यम्वक्तुः श्रोतरि बुद्धिजननम्प्रति । येनोपयो
1 In the margin.