________________
५. शब्द - चिन्ता
३७७
स्वभा स्याभावे साध्येऽनुपलम्भ वाप्रमाणमुच्यते । कारणानुपलम्भस्तु प्रमा
णमेव ।
न हि येषां बहूनां कारणानां कार्यस्य सम्भवः ।
ननु कारणविनाशेऽपि न कार्यस्थितिदर्शनम् । कारणस्थितिकालभावि कार्यं न ब्रूमः ।
न च तथा स्थायी भावस्तदुपादानः पारम्पर्येण सन्तानोपकारात् तत्कार्यव्यपदेशः । हेत्वभावे भावोत्पादे नहि सत्तेत्युक्तम् । यद्यस्य कथंचिदभावः सिध्येत तदा तत्फलं तस्य नास्तीति निश्चीयते ।
कारणानुपलम्भस्तु तत्राप्यभावसाधनमित्याह । कार्ये त्वित्यादि । कार्ये तु स्वभावादिविप्रकर्षिण्यपि कारकाज्ञानं कारणानुपलब्धिरभावस्य साधनमेव ।
स्वभावेत्यादिना व्याचष्टे । विप्रकृष्टविषयस्य स्वभावस्याभावे साध्ये स्वभावानुपलम्भ एवाप्रमाणमुच्यते । कारणानुपलम्भस्तु प्रमाणमेव ।
विप्रकृष्टविष कारणानुपलम्भ एव निश्चेतुमशक्यस्तत्कथं कार्याभावं साधयेत् । सत्त्यम् (1) एतावद् वक्तुं शक्यते ( 1 ) कारणमन्तरेणानुद्दिष्टविषये कार्यमवश्यं न भवतीतीयता लेशेनास्योपन्यासः । अत एव सामान्येनाह । न ह्यस्तीत्यादि ।
नन्वित्यादि परः । अग्नविनाशेपि वासग्रहादौ धूमस्य दर्शनात् । तथा चासत्यपि कारणे कार्यं दृष्टमिति व्यभिचारः । असति कारणे कार्यन्न स्यादित्यनेन वाक्येन कारणस्थितिकालभावि कार्यं । यावत् कारणसत्ता तावत् कार्यसत्तेत्येवन ब्रूमो येन कारणनाशेपीत्यादिकः प्रसंगः स्यात् । किन्तर्ह्यनेन वाक्येनोच्यत इत्याह । हेतुरहितेत्यादि ।
एवन्तावत् स्थिरतामभ्युपगम्योक्तं । क्षणिकत्वे तु कारणे विनष्टे कार्यस्थानमेव नास्तीति कुतो व्यभिचाराशंका । तथा हि योग्निजन्यो धूमक्षणस्तस्याग्निविनाशे नास्त्येवावस्थानं । क्षणिकत्वेन विनाशात् । यश्च पश्चात् स्थायी धूमः स धूमहेतुक एव नाग्निहेतुकः । तदेव दर्शयन्नाह । न च तथेत्यादि । तथा स्थायीति नष्टेप्याद्ये कारणे कालान्तरस्थायी । तदुपा' दानः पूर्वनिरुद्धहेतूपादानः ।
कथन्तर्हि पाश्चात्योपि धूमोग्निहेतुक इत्युच्यत इत्याह । पारम्पर्येत्यादि । आद्यन्तावद् धूमक्षणम्वह्निरेव जनयति ( 1 ) स धूमक्षणोऽपरं सोप्यपरमित्येवं पारम्पर्येण । एतदेव स्फुटयन्नाह । सन्तानोपकारादिति । प्रबन्धस्य प्रथमतो जननात् तत्कार्यव्यपदेशः । तस्माद् यस्य कारणस्य पाश्चात्यमपि कार्यमित्येवं व्यप
४८
137a