SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रमाणवात्तिकस्ववृत्तिटीका (१।२०४) तदत्र केषांचिदर्थानां स्वभावानां च दर्शनपाटवाभावात् च कारणानां फलोत्पादनियमाभावात् ज्ञापकस्यासिद्धिः।। नेयता तदभावः , पुनरपि केषांचित् पर्यायेण अभिव्यक्तेः । कार्ये तु कारकाज्ञानमभावस्यैव साधकम् । . कस्यचित् प्रतिभावतः । तस्मादर्थसंशयात् प्रमाणसंशयाद्वाऽप्रतिक्षेपः। अन्ये तु विरक्तचित्तेऽभ्युदयहेतुत्वे चात एवेति साधकबाधकप्रमाणाभावात् संशयोस्त्विति व्याख्याय। विरक्तं चित्तं सर्वज्ञत्वे भवेद्वा प्रमाणमित्यप्रतिक्षेपः । तच्च प्रमाणं द्वितीये परिच्छेदेऽभिधास्यत इति व्याचक्षते। ___यत एव व्यवहितस्यापि कार्योत्पत्तिः । तत्तस्मादत्र एवातीन्द्रियेषु मध्ये केषां. चिदर्थानां स्वभावानां चेति यद्यपि पाठक्रमः। तथापि यथायोग सम्बन्धः । केषांचित् स्वभावनामभ्युदयहेत्वादीनां भवेज्ज्ञापकासिद्धिः । कथं (1) दर्शनपाटवाभावात् । तद्विषयस्यानुभवस्य यथागहीतस्वरूपनिश्चयोत्पादने सामर्थ्याभावात् केषांचिदर्थानां विरक्तचित्तत्वादीनां। प्रत्यक्षानुमानलक्षणं कार्य ज्ञापकन्तस्याभावात्।' 136b ____ तथाभूतस्य कार्यस्य कस्मादभाव इत्याह । कारणानामित्यादि। न हि कार गैरवश्यमात्मज्ञापकङ्कार्यं सर्वपुरुषग्राह्यमारब्धव्यमिति नियमः। . अन्ये त्वन्यथा व्याचक्षते। केषां चित् स्वभावानामभ्युदयहेतुवादिनां । अर्थानां च विरक्तचित्तादीनाम्भवेज्ज्ञापकस्य निश्चायकस्य प्रमाणस्यासिद्धिः। कुतः (1) दर्शनपाटवाभावात् । ___ एतदुक्तम्भवति। दर्शनमेव ज्ञापकं कस्यचिदर्थस्य तच्चापटुत्वात् सर्वाकारनिश्चयन्नोत्पादयति। कारणानां च कार्योत्पादननियमाभावस्तेनानन्तरकार्यादर्शनात्। कार्यद्वारेणाप्यभ्युदयहेतुत्वन्न शक्यं निषेधुं। तथातीन्द्रियाणामर्थानां दर्शनस्य मनोविज्ञानलक्षणस्यापाटवात् प्रत्यक्षेणाग्रहणं। न हि कार्यद्वारेणैषां निश्चयः कारणानां च कार्योत्पादननियमाभावात् । न हि कारणैरवश्यमात्मज्ञापकं कार्यं सन्तानान्तरे जनयितव्यमिति नियमः। तस्मान्न प्रत्यक्ष नानुमानं तेषामस्ति। नेयतेति यथोक्तज्ञापकाभावमात्रेण तदभावोतीन्द्रियाणामभावः। यस्मात् प्रत्यक्षानुमानाभ्यामनुपलब्धानामपि केषांचिदर्थानां पुनरपि पर्यायेण क्रमेण कुड्यविवरावस्थितानामर्थानां प्रत्यक्षेणानुमानेनाभिव्यक्तेः प्रतीतेः। तदेवं विप्रकृष्ट स्वभावानुपलम्भो नासत्तासाधनं। नापि कार्यानुपलम्भः।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy