________________
३७६ प्रमाणवात्तिकस्ववृत्तिटीका (१।२०४)
तदत्र केषांचिदर्थानां स्वभावानां च दर्शनपाटवाभावात् च कारणानां फलोत्पादनियमाभावात् ज्ञापकस्यासिद्धिः।। नेयता तदभावः , पुनरपि केषांचित् पर्यायेण अभिव्यक्तेः ।
कार्ये तु कारकाज्ञानमभावस्यैव साधकम् । .
कस्यचित् प्रतिभावतः । तस्मादर्थसंशयात् प्रमाणसंशयाद्वाऽप्रतिक्षेपः।
अन्ये तु विरक्तचित्तेऽभ्युदयहेतुत्वे चात एवेति साधकबाधकप्रमाणाभावात् संशयोस्त्विति व्याख्याय। विरक्तं चित्तं सर्वज्ञत्वे भवेद्वा प्रमाणमित्यप्रतिक्षेपः । तच्च प्रमाणं द्वितीये परिच्छेदेऽभिधास्यत इति व्याचक्षते। ___यत एव व्यवहितस्यापि कार्योत्पत्तिः । तत्तस्मादत्र एवातीन्द्रियेषु मध्ये केषां. चिदर्थानां स्वभावानां चेति यद्यपि पाठक्रमः। तथापि यथायोग सम्बन्धः ।
केषांचित् स्वभावनामभ्युदयहेत्वादीनां भवेज्ज्ञापकासिद्धिः । कथं (1) दर्शनपाटवाभावात् । तद्विषयस्यानुभवस्य यथागहीतस्वरूपनिश्चयोत्पादने सामर्थ्याभावात् केषांचिदर्थानां विरक्तचित्तत्वादीनां। प्रत्यक्षानुमानलक्षणं कार्य
ज्ञापकन्तस्याभावात्।' 136b ____ तथाभूतस्य कार्यस्य कस्मादभाव इत्याह । कारणानामित्यादि। न हि कार
गैरवश्यमात्मज्ञापकङ्कार्यं सर्वपुरुषग्राह्यमारब्धव्यमिति नियमः। . अन्ये त्वन्यथा व्याचक्षते। केषां चित् स्वभावानामभ्युदयहेतुवादिनां । अर्थानां च विरक्तचित्तादीनाम्भवेज्ज्ञापकस्य निश्चायकस्य प्रमाणस्यासिद्धिः। कुतः (1) दर्शनपाटवाभावात् । ___ एतदुक्तम्भवति। दर्शनमेव ज्ञापकं कस्यचिदर्थस्य तच्चापटुत्वात् सर्वाकारनिश्चयन्नोत्पादयति। कारणानां च कार्योत्पादननियमाभावस्तेनानन्तरकार्यादर्शनात्। कार्यद्वारेणाप्यभ्युदयहेतुत्वन्न शक्यं निषेधुं। तथातीन्द्रियाणामर्थानां दर्शनस्य मनोविज्ञानलक्षणस्यापाटवात् प्रत्यक्षेणाग्रहणं। न हि कार्यद्वारेणैषां निश्चयः कारणानां च कार्योत्पादननियमाभावात् । न हि कारणैरवश्यमात्मज्ञापकं कार्यं सन्तानान्तरे जनयितव्यमिति नियमः। तस्मान्न प्रत्यक्ष नानुमानं तेषामस्ति।
नेयतेति यथोक्तज्ञापकाभावमात्रेण तदभावोतीन्द्रियाणामभावः। यस्मात् प्रत्यक्षानुमानाभ्यामनुपलब्धानामपि केषांचिदर्थानां पुनरपि पर्यायेण क्रमेण कुड्यविवरावस्थितानामर्थानां प्रत्यक्षेणानुमानेनाभिव्यक्तेः प्रतीतेः। तदेवं विप्रकृष्ट स्वभावानुपलम्भो नासत्तासाधनं। नापि कार्यानुपलम्भः।