________________
५. शब्द - चिन्ता
३७५
विरतिचेतनानां चाभ्युदयनिःश्रेयस हेतुता नास्तीति च प्रत्यक्षेऽप्यर्थे तस्य फलस्यानन्तर्याभावात् । श्रुतत्फला' साधर्म्यात् विपर्यस्तोऽपवदेतापि । न तावता व्यवहि- 481b तानां फलानां हेतोः फलानामुत्पत्तिदर्शनात् तदभावः । मूषिकस्य चोन्मत्तकुक्कुरस्य विषविकार इव, तद्भावे विरोधाभावात् श्रत्रानुपलब्धिमात्रम
प्रमाणम् ।
यदि भावे यत् प्रमाणं नैवास्ति श्रत एव संशयो युक्तः । प्रमाणसंभवादेव प्रतिक्षेपः ।
अभ्युदयहेतुना स्वर्गादिफलहेतुना । अत्र चेतनानां न स्वरूपं प्रतिक्षिप्यते तासां प्रत्यक्षत्वात् । किन्त्वभ्युदयहेतुत्वं स्वभावो विशेषो नास्तीत्युच्यते ।
ननु चेतनानां प्रत्यक्षत्वा दभ्युदयहेतुतापि तदात्मभूतत्वात् । प्रत्यक्षस्यैवेति कुतो भ्रान्तिरित्यादि ।
प्रत्यक्षेप्यर्थे विपर्यस्तोऽपवदेतापीति सम्बन्धः । कथविपर्यस्त इत्याह । अतत्फलेत्यादि । अतत्फला अनभ्युदयफला ये दृष्टाश्चेतना विशेषा अव्याकृताः । तैस्साधर्म्यात् । साधर्म्यमेव कथमित्याह । फलस्यानन्तर्याभावादिति या अन्या अतत्फलाश्चेतनाः । याश्च तत्फला उभयत्र तत्फलस्यानन्तर्यन्न दृश्यते । न तावतेति फलस्यानन्तर्यादर्शनमात्रेण । तदभावः फलाभावः । कस्माद् (1) व्यव - हितानामित्यादि । हेतोः सकाशात् कालान्तरेणोत्तरोत्तरावस्थापरिणामलक्षणेन व्यवहितानां फलानान्दर्शनात् । मूषिकस्यालर्कस्य चोन्मत्तकुक्कुरस्य विषविकार इव स हि न विषसंचारकाल एव भवति किन्तु सहकारिणः कालविशेषस्य सन्निधौअनिष्पद्यते । न तु हेत्वन्तरमेव तद्वत् ।
स्यादेतत् (1) मूषिकादिविषविकारस्य कालान्तरे दृष्टत्वात् सद्भावो युक्त एव । दानादिफलन्तु न कदाचनापि दृष्टमिति कथन्तस्य सद्भाव इत्याह । तदित्यादि । तद्भाव इति । तयोर्दानादिफलातीन्द्रियवस्तुनोर्भावे विरोधाभावात् । अत्र दानादिफलेऽतीन्द्रियभावे वानुपलब्धिमात्रमप्रमाणं ।
यदि बाधकं प्रमाणं नास्तीत्यप्रतिक्षेपो भावेऽस्तित्वे किं प्रमाणनैवास्ति प्रमाणमतः सत्तानिश्चयो न युक्त इति परः ।
अत एवेत्या चार्यः । अत्यन्तमतीन्द्रियस्यार्थस्य साधकबाधकप्रमाणाभावात् प्रेक्षावतः संशयो युक्तः । यदि वा यद् वस्तु निराकर्तुन्न शक्यते न च तस्य साधकं प्रमाणं प्रतिभाति । तस्यैवं सम्भावना युक्ता भवेदस्य कदाचित् साधकं प्रमाणं