________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।२०३ )
सदसन्निश्चयफला नेति स्याद् वाऽप्रमाणता || २०२||
न चेयं श्रनुपलब्धिः प्रमाणम् । व्यवसायफलत्वात् प्रमाणानाम् ।
इदं प्रवृत्तिनिषेधमपि न निःशंकपरिच्छेदं चेतः । संशयादपि क्वचित् प्रवृत्तेः । तथात्वे तदेव निरवद्यं निश्चयपूर्वं व्यवहरेद् इति श्रप्रवृत्तिफला प्रोक्ता । प्रमाणमपि काचित् स्यात् लिङ्गातिशयभाविनी ।
३७४
श्रत्र सर्वाऽनुपलब्धिरसमग्रा लिङ्गविशेषवती प्रमाणमपि । यथोदाहृता प्राग् । यस्यापि श्रनुपलम्भे न प्रमाणं इति वादी --
स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ २०३ ॥
यस्य कस्यचित् स्वरूपविषयादिना प्रकर्षादननुपलम्भमात्रेणा सन् नाम । यथोक्तं प्राग् । योऽपि ज्ञापकस्य लिङ्गस्याभावात् श्रतीन्द्रियार्थः स्वभावविशेषो वा प्रतिक्षिप्यते । यथा नास्ति विरक्तं चेतः, देवताविशेषभावो वा । दानहिंसादि
वतीत्यर्थः। उपलब्धिलक्षणप्राप्तानुपलब्धिरिति यावत् ।
अत्रेत्यादिना व्याचष्टे । अत्रेति निवृत्तिनिश्चये । यथोदाहृता प्रागिति । ( २०२ -३ )
"असज्ज्ञानफला काचिद्धेतुभेदव्यपेक्षये "त्यादिना ( 1 ) ।
`यत्पुनरुक्तम् (।) अप्रमाणमनुपलब्धिरिति तन्नाविशेषेण बोद्धव्यं किन्तु स्वभावेत्यादि । देशादिविप्रकृष्ट: स्वभाव: ( 1 ) ज्ञापकं लिङ्गं । तयोरज्ञानं । ‘“स्वभावज्ञापकाज्ज्ञानस्यायं न्याय उदाहृतः । 5" (१।२०३)
असत्त्वे साध्ये नास्ति प्रामाण्यमिति । स्वभावाज्ञानं प्रत्यक्षनिवृत्तिः । ज्ञापकाज्ञानमनुमाननिवृत्तिः । अदृश्यविषयायाः प्रत्यक्षानुमाननिवृत्तेरयं न्याय उदाहृत इति समुदायार्थः ।
यस्येत्यादिना व्याचष्टे । यस्य कस्यचित् पिशाचादेः । स इति स्वभावः । तदनुपलम्भमात्रेणेति तेन तद्विषयानुपलम्भमात्रेण प्रत्यक्षनिवृत्ति 'रूपेणासन्नाम । यथोक्तं प्रागिति । “सतामपि कदाचिदनुपलम्भादि "त्यादिना । स्वभावाज्ञानमनेन व्याख्यातं।
ज्ञापकाज्ञानम्व्याख्यातुमाह । योपीत्यादि । ज्ञापकस्येत्यस्य विवरणं लिङ्गस्येति । अतीन्द्रियः प्रतिक्षिप्यतेऽर्थः । यथा नास्ति विरक्तं चेत इत्यादि । तथा 136a ज्ञापकस्य लिङ्गस्याभावात् स्वभावविशेषो वा' प्रतिक्षिप्यते । अत्र विशेषः प्रतिक्षिप्यते न धार्मिमात्रं । यथा नास्ति दानेत्यादि । दानं च हिंसा विरतिश्चेति द्वन्द्वः । तद्विषयाश्चेतनाः । वानचेतनानां हिंसाविरतिचेतनानां चेत्यर्थः ।