________________
५. शब्द - चिन्ता
३७३
न तच्छास्त्रं विषयीकरोति । न च तथा विप्रकृष्टे स्वसामर्थ्योपधानात् ज्ञानोत्पादनशक्तिर्नास्ति 7
स चावश्यं कार्योपलम्भस्य चाप्यभावे येनानुमिनोति, न च ते प्रमाणत्रयनिवृत्ता श्रपीति न निश्चयसामर्थ्यम् । तस्मात् सर्वाऽनुपलब्धिर्हि न निवृत्तिनिश्चयस्य साधनी । तद् इयं हि --
स्त्रविषयीकरोति । ताश्च चेतोवृत्तयस्ते च विशेषास्तानिति पुलिंगेनोक्ताः । " पुमान् स्त्रिये" ति पुंसः शेषं कृत्वा ।
नापि प्रत्यक्षस्य विषया इत्याह । न चेत्यादि । तथा विप्रकृष्टेष्विति देशादि - विप्रकृष्टेषु स्वसामर्थ्योपधानात् । स्वरूपसन्निधानात् । ज्ञानोत्पादनशक्तिर्नास्ति । एतेनातीन्द्रिया इत्येतद् व्याख्यातं ।
अनुमानस्यापि न ते विषया इत्याह । 7 स चावश्यमित्यादि । एषामिति 135b देशादिव्यवहितानां । येनेति कार्योपलम्भेन । न च त इति विप्रकर्षिणः । सर्वेत्यदृश्यानुपलब्धिरपि। निवृत्तिनिश्चयस्याभावनिश्चयस्य । यत एवन्तदिति तस्मात्। इयमित्यदृश्यानुपलब्धिस्सदसन्निश्चयफला नेति (1) सन्निश्चयफला न भवति सद्व्यवहारनिमित्ता । न चाप्यसन्निश्चयफला सन्देहात् । इति हेतो ( : ) स्याद्वानुपलब्धेरप्रमाणता । व्यवसायफलत्वादिति निश्चयफलत्वात् प्रमाणानां । प्रत्यक्षमपि हि प्रमाणं सर्वाकारग्रहेपि येष्वाकारेषु निश्चयमावहति तेष्वेव ।
ननु प्रवृत्तिनिषेधप्रमाणं स्यादित्याह । न हीत्यादि । इयमित्यनुपलब्धिः । नि:शंकपरिच्छेदमिति निःशंकः परिच्छेदो यस्य चेतस इति विग्रहः । संशये सति न प्रवर्तितव्यम' वश्यमित्येवं निश्चितं चेतो न करोतित्यर्थः । संशयादपि क्वचित् कृषीवलादेर्लोकस्य प्रवृत्तेः । कथन्तर्ह्यप्रवृत्तिफलत्वेनास्याः प्रामाण्यमुक्तमित्यत आह । तथात्वे तदित्यादि । तथा तेन रूपेणैतदप्रवृत्तिकारणमनुपलम्भाख्यं निरवद्यं निर्दोषं यदि निश्चयपूर्वं व्यवहरेत् कश्चित् । प्रमाणपूर्वं सद्व्यवहारादि प्रवर्तयेत् । इत्यनेन द्वारेण से यमदृश्यानुपलब्धिरप्रवृत्तिफला प्रोक्ता निश्चितसद्व्यवहारादिप्रतिषेधफला प्रोक्ता ( 1 ) सन्दिग्धस्तु सद्व्यवहारादिर्न निषिध्यत इति पुरुषस्य प्रवृत्तिर्भवत्यपि ।
481a
लिङ्गातिशयभाविनीति लिङ्गमनुपलब्धिस्तस्या अतिशयो विशेष उपलब्धिलक्षणप्राप्तत्वन्तस्य भावस्सद्भावस्स यस्यामस्ति सा तथोक्ता । लिङ्गविशेष
1 Pānini 1.2.67