________________
३७२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२०२) । असत्तायां तल्लक्षणो यदुपलब्धियोग्यः सकलेष्वन्येषु कारणेषु सन् नोपलभ्येत । न पुनः पूर्वाऽसत्तासाधनी।
शास्त्राधिकारासम्बद्धा बहवोऽर्था अतीन्द्रियाः ॥२०१॥
अलिङ्गाश्च कथन्तेषां सभावोऽनुपलब्धितः । तदभावसाधनेऽनुपलब्धिमात्रेण सर्वार्थानां प्रमाणत्रयनिवृत्त्या सिद्धं स्यात् (इति) तस्य शास्त्रस्य निवृत्तिहि न ह्यभावसाधनी तस्य क्वचिदधिकारे प्रवृत्तेः । शास्त्रप्रवृत्तौ हि पुरुषार्थसाधनोपायं कमप्याश्रित्य प्रवृत्तौ। अन्यथाऽसंबद्ध प्रलापस्य अप्रामाण्यात्। ___ तत्र प्रकरणेऽपि वहवोऽर्था नावश्यं निर्देश्या यथा प्रत्यात्मनियता पुरुषचेतसः कस्यचिदनियतनिमित्तभावि वृत्तयः । देशकालविप्रकृष्टषु उपधानद्रव्यभेदवत् ।
फलं यस्या इति विग्रहः। (२००-२०१)
असत्तायामित्यादिना व्याचष्टे। असत्तायामप्यनिश्चयेपि यस्मान्न ह्यस्ति सम्भवो यदुपलब्धियोग्यो भावः सकलेष्वन्येषूपलम्भकारणेष सन् विद्यमानो नोपलभ्येत । न पुनः पूर्वा विप्रकृष्टविषयानुपलब्धिरसत्तासाधनी। तथा हि (1) प्रत्यक्षानुमानागमनिवृत्तिलक्षणैवानुपलब्धिः। तत्र शास्त्रस्याधिकारोस्मिन् प्रकरणे तत्रासम्बद्धा अनान्तरीयका बहवोर्थाः स्वभावादिविप्रकर्षिणः शास्त्रे नाधिक्रियन्त इति यावत्। प्रत्यक्षस्यापि न ते विषया इत्याहातीन्द्रियाः। नाप्यनुमानस्य यस्मादलिङ्गाः। नैषां लिङ्गमस्तीत्यलिङ्गाः। तेषामतीन्द्रियाणामर्थानां प्रमाणत्रयानिवृत्तिलक्षणाया अनुपलब्धितः कथमभावः (1) नैव । (२००-१)
सोयमिति वादी। सर्वार्थानामिति देशकालस्वभावविप्रकर्षिणां प्रमाणत्रयनिवृत्त्येति प्रत्यक्षानुमानागमनिवृत्त्या। तस्येति शास्त्रस्य क्वचित् पुरुषार्थानुपयोगिन्यर्थेऽनधिकारे विनियोगाभावे प्रवृत्तेः। यस्माच्छास्त्रं हीत्यादि। अन्यथेति पुरुषार्थानुपयोगिनमर्थमाश्रित्य शास्त्रप्रवृत्तौ। अबद्धप्रलापस्यासम्बद्धाभिधायिनः शास्त्रस्याप्रामाण्यात्। ___स्यादेतत् (1) सर्व एवार्थाः पुरुषार्थोपयोगिन इत्यत्राह। तत्रेत्यादि। तत्र प्रकरण इति पुरुषार्थचिन्ताप्रस्तावे। प्रत्यात्मनियता इति प्रतिपुरुषनियताः । एतेन पुरुषाणामानन्त्यादानन्त्यं चेतोवृत्तीनामाह। अनियतान्निमित्ताद् भवितुं शीलं यासामिति विग्रहः। अनेनैकस्मिन्नपि पुंसि निमित्तभेदाद् बहुत्वं। एवं भूताश्चेतोवृत्तयो नावश्यं साकल्येन प्रतिपदं निर्देश्या अशक्यत्वात्। कालदेशव्यवहिता वा पुरुषार्थानुपयोगिनो द्रव्यविशेषा नावश्यं निर्देश्यास्ततो न तच्छा