________________
५. शब्द-चिन्ता
३७१ सनिश्चयाद्धि शब्द व्यवहाराः प्रवर्त्तन्ते। तस्मात् ते प्रवृत्तिरित्युक्तम् । तथा हनुपलब्धिरेवासतामसत्त्वमित्युक्तम्। तच्च प्रतिपत्तृवशादुक्तं, न वस्तुवशात्। यावदत्राप्रतिपत्तिः तावदत्र स्वभावोऽस्य नास्ति । सताऽपि तेन तदर्थाकरणात्। वस्तुतस्तु अनुपलभ्यमानो न सन्नासन्। सतामपि स्वभावादिविप्र- 480b कर्षादनुपलम्भात् तस्यासत्स्वपि तुल्यत्वात्। तत् प्रतिपत्तुः प्रमाणाभावात् उपलब्धिलक्षणमेतत् सत्त्वं तन्निवृत्तं स्वनिमित्तान् शब्दव्यवहारान् निवर्तयति ।
तेन यापीयमनुपलब्धिरुपलब्धिलक्षणप्राप्तानां साऽपि वस्तुतोप्यसत्त्वरूपाऽप्रवृत्तियोग्यत्वात् । तस्या अपि प्रत्र विषये तुल्यं प्रामाण्यम् । असन्निन्नश्चयफलाऽपि सा।
प्रवर्तन्ते तस्मात्ते सन्निश्चयशब्दव्यवहारास्त्रयोपि प्रवृत्त्यङ्गत्वात् पुरुषप्रवृत्तेनिमित्तत्वात् प्रवृत्तिरित्युक्तः। तस्मान्न सूत्र वृत्त्योर्व्याघात इति।
किम्पुनः कारणमुपलम्भनिवृत्तौ सद्व्यवहारो निवर्त्तते। तथा ह्यनुपलब्धिरेव द्विप्रकाराप्यविशेषेणासत्त्वमित्युक्तं प्राक। तच्चासत्त्वम्विप्रकृष्टायामनुपलब्धौ प्रतिपत्तृवशादुक्तं। प्रतिपत्ता ह्यनुपलभ्यमानन्नास्तीत्यध्यवस्यति । न वस्तुवशात् । तथा हि विप्रकृष्टेर्थे सत्त्वमसत्त्वञ्च सन्दिग्धं । तस्मात् तावद्धि स विप्रकृष्टोभावोस्य प्रतिपत्तुर्नास्ति यावदत्राप्रतिपत्तिः। कस्मात् (।) सतापि तेन विप्रकृष्टेनार्थेनानुपलब्धेन तदर्थाकरणात्। तस्य पुंसोकरणात्। सन्नप्यसत्कल्पः। वस्तुतस्त्वनुपलभ्यमानो न सन्नासन्। कस्मात् (1) सतामपि कदाचित् स्वभावादिविप्रकर्षादनुपलम्भानासत्तानिश्चयः। क्वापि सत्तानिश्चयस्तस्यास्यानुपलम्भस्यासत्स्वपि तुल्यत्वात्। तदिति तस्मात्। एतत् सत्त्वमिति सम्बन्धः । किम्भूतमनुपलब्धिलक्षणन्देशादिविप्रकृष्टं प्रतिपत्तुः प्रमाणाभावात्। प्रत्यक्षानुमानाभावानिवृत्तन्न वस्तुवशात्। किं करोति (।) स्वनिमित्तान् शब्द व्यवहा- 135a रान् निवर्तयति।
उपलब्धिलक्षणमित्यन्ये पठन्ति । उपलब्धिरेव सत्त्वमुपचारात् तथाभूतं सत्त्वं निवृत्तमित्यर्थः।
येनैवन्तेन कारणेन यापीयमनुपलब्धिः (1) केषाम् (1) अनुपलब्धिलक्षणप्राप्तानां। या वस्तुतोप्यसत्त्वरूपा (1) अपिशब्दात् प्रतिपत्तृवशादपि। किं कारणम् (1) अप्रवृत्तियोग्यत्वादसद्व्यवहारयोग्यत्वात् । तस्या अप्यनुपलब्धेरेतत्सद्वयवहारप्रतिषेधकत्वेन तुल्यं प्रामाण्यं । अत्र विषये सद्व्यवहारप्रतिषेधे।
येयमनुपलब्धिलक्षणप्राप्तानु पलब्धिरसन्निश्चयफलापि सा । असन्निश्चयः