________________
३७०
प्रमाणवात्तिकस्ववृत्तिटीका (१।२०१) या काचिद् भावविषया द्विधैवानुमितिस्ततः ॥१९९।।
स्वसाध्ये कार्यभावाभ्यां संबन्धनियमात्तयोः । तस्मात् भावविषयानुमानं द्विविधमेव कार्यलिङ्गक स्वभावलिङ्गकं च । यथास्वं विशेषक (व्यापि) साध्ये लिंगिनि तयोरेव प्रतिबन्धात् यथोक्तपूर्वम् ।
( ३ ) अनुपलब्धिचिन्ता
क. अनुपलब्धेः प्रामाण्यम् प्रवृत्तेर्बुद्धिपूवत्वात् तद्भावानुपलम्भने ॥२०॥
प्रवर्तितव्यं नेत्युक्तानुपलब्धेः प्रमाणता। तृतीय स्तु हेतुरनुपलब्धेरविशेषेण क्वचिदर्थे गमक इत्युच्यते। सत्तानिश्चयध्वनिव्यवहारप्रतिषेधे हि सर्वैव लिङ्गम्।
व्यवधानेपि । (१९८-९६)
यत्पूर्वमुपन्यस्तन्तत्र द्वौ वस्तुसाधनाविति तदुपसंहरन्नाह । तत इति तस्माद् या काचिद् भावविषया कार्यस्वभावाभ्यां लिङ्गाभ्यां द्विधैवानुमितिः । कस्मात्तयोः कार्यस्वभावयोरेव स्वसाध्ये सम्बन्धनियमात् । कार्य लिङ्गं यस्या अनुमितेः । एवं स्वभावो लिङ्गं यस्या इति विग्रहः । यथास्वं व्यापिनि' साध्य इति कार्यस्य कारणं व्यापकं साध्यं (1) स्वभावस्यापि स्वभावो व्यापकः साध्यस्तस्मिन् साध्ये लिङ्गिनि तयोरेव कार्यस्वभावयोलिङ्गयोः प्रतिबन्धात् । (१६८-६६)
__ अनुपलब्धिमधिकृत्याह। प्रवृत्तेरित्यादि। प्रवृत्तेः। सन्निश्चयशब्दव्यवहारलक्षणयोः बुद्धिपूर्वत्वात् प्रमाणपूर्वत्वात् । तद्भावानुपलम्भने तस्य प्रवृत्तिविषयस्य भाव स्य प्रत्यक्षानुमानाभ्यामनुपलम्भने प्रेक्षावता प्रवत्तितव्यं नेतीयता लेशेनादृश्यविषयाया अप्यनुपलब्धेरुक्ता प्रमाणता। तृतीयस्तु हेतुरनुपलब्धिगमक इत्युच्यत इति सम्बन्धः। अविशेषेणेति दृश्यविषयेत्यमुम्विशेषन्त्यक्त्वा सामान्येन क्वचिदर्थे साध्ये । सन्निश्चयेत्यादिना तमेवार्थन्दर्शयति । प्रमाणपृष्ठभावी सदिति विकल्पः सन्निश्चयः। तत्पृष्ठभाव्येव सदिति ध्वनिः सच्छब्दः । तथैव सदित्यनुष्ठानं सद्व्यवहारः। तेषां प्रतिषेधे हि सर्वैव दृश्यविषयाऽदृश्यविषया च।
ननु का रिका यां प्रवृत्तिरित्युक्तन्तत्कथं वृत्तौ सन्निश्चयेत्यादि व्याख्यायत इत्याह । सन्निश्चयादीत्यादि। यस्मात् सतां विद्यमानानां निश्चयाच्छन्दव्यवहाराः