________________
५. शब्द - चिन्ता
यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः ।
सोऽयं क्वचित् ' सत्तादर्शननिरपेक्षत्वात् स्वभावः स्यात् । तथाऽन्यत्रापि स्वभावभावी विशेषाभात् ।
३६६
अस्मादित्यादि । अस्माच्च स्वभावमात्रभावादन्यत्रापि देशादिव्यवधानेनादृष्टे । तथा दृष्टे ( 1 ) विरोधि सन्निधानात् पूर्वमपि स्वभावत एव विनाशो भवति ।
एवम्मन्यते । येषान्तावद्विनाशो दृश्यते तेषां यदि न प्रतिक्षणं विनाशः स्यात् तदा विनाशप्रतीतिरेव न स्यात् । तथा हि यदि द्वितीये क्षणे भावस्य स्थितिस्तदासौ सर्वदैव तिष्ठेत् । द्वितीयेपि क्षणे क्षणद्वयस्थायी स्वभावत्वात् । तदा च तेनापरक्षणद्वयं स्थातव्यं । अपरस्मिन्नपि क्षणे क्षणद्वयस्थायिस्वभावत्वादपरस्मिन् क्षणेऽवस्थानं स्यादेवमुत्तरोत्तरे क्षणे द्रष्टव्यमित्यासंसारम्भावस्य स्थितिः स्यात् ।
अथ प्रथमे क्षणे- भावस्य क्षणद्वयस्थायी स्वभावो द्वितीये क्षण एकक्षणस्थायी । तथापि तयोः स्वभावयोर्भेदात् क्षणिकत्वं स्यात् । न त्वेवमपि प्रथमे क्षणे भावस्या - नेकक्षणावस्थायिस्वभावादक्षणिकत्वं स्यान्नासंसारं स्थितिप्रसङ्गादित्युक्तत्वात् ।
ननु द्वितीयेपि क्षणे भावस्योत्तरक्षणानवस्थानेपि पूर्वक्षणस्थायी रूपाभेदेन पूर्वमपि स्थानात् क्षणद्वय' स्थायित्वमस्त्येवेति चेत् ( 1 )
न । पूर्वम्भावस्य ह्येष स्वभावो यदेकस्मिन् क्षणे तिष्ठत्यन्यस्मिन् क्षणे स्थास्यति। स एव चेत्स्वभावो द्वितीये क्षणे तदाप्येकस्मिन् क्षणे तिष्ठत्यन्यस्मिन् क्षणे द्वयं स्थास्यतीत्येवमुत्तरोत्तरक्षणेपि द्रष्टव्यमिति न विनाशो भावस्य स्यात् । दृश्यते च ( 1 ) तस्माद् विनाशप्रतीत्यन्यथानुपपत्त्या प्रतिक्षणविनाशानुमानं ।
अदृष्टेषु तर्हि कृतकेषु कथं प्रतिक्षणविनाशित्वानुमानं विनाशस्यैवादर्शनात् । नैष दोषो यस्मात् तेषामपि प्रथमे क्षणे य एव स्वभावः स एव चेत् द्वितीयादिक्षणे तदाऽभूत्वा भवनमेव प्रथमक्षणवत् । अथ प्रथमे क्षणे तस्य जन्मैव न स्थितिद्वितीये च क्षणे स्थितिरेव न जन्म । एवमपि क्षणिकत्वं स्यात् । जन्मजन्मिनोः स्थितिस्थितिमतोश्चाभेदात् । न च द्वितीये क्षणे जन्म विना स्थितिर्युक्ता । जन्म चेन तदास्थितिस्तस्या द्वितीयादिक्षणभावित्वात् । द्वितीयादौ क्षणेप्येवमिति सर्वत्रोत्पत्तिरेव न स्थितिरिति क्षणिकत्वं । किं च परस्परभिन्नस्यापरापरकालसम्बन्धित्वस्य कृतकाद् भावादभिन्नत्वात् क्षणिकत्वमेव ।
सोयमित्यादिना का रिका र्थमाह । अयमिति विनाशः । क्वचिद् घटादौ मुद्गरादिसन्निधाने' तथान्यत्रापीति मुद्गरसन्निधानात् पूर्वमपि । एवन्देशादि - 134b
४७