________________
३६८
प्रमाणवात्तिकस्ववृत्तिटीका (१।१६८ )
480a न करोतीति क्रियाप्रतिषेधोऽस्य कृतः स्यात् । तथाऽपि श्रयमकिंचित्करः किमिति' निवर्त्यते । सिद्धा विनाशं प्रत्यनपेक्षा भावस्य । तस्मात् -- असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ||१९८॥
चाभावस्तेनाभावो भावविरोधी । न चाभावरूपतया तस्य प्रतिभासनादभावरूपता । भवनधर्मत्वेनाभावरूपतया प्रतिभास एव न स्यादितीदमेव चोद्यते । न च परस्परविविक्तरूपतयाऽभावानां प्रतिभासः । यतश्चाभावस्य नीरूपत्वादकार्यत्वन्तस्मादभावं करोतीति भावं न करोतीति वाक्यार्थः स्यात् । तेन क्रियाप्रतिषेधोस्य नाशहेतोः कृतः स्यात् । तथापि क्रियाप्रतिषेधेप्ययं विनाशहेतुरकिञ्चित्करः । किमिति नाशेऽपेक्ष्यते भावेनेति सिद्धा विनाशं प्रत्यनपेक्षा भावस्य ।
ननु निर्हेतुकेपि विनाशे कथम्विनाशं प्रत्यनपेक्षा भावस्य । स्वभावो हि स तस्येत्थं येनापेक्ष्य निवर्त्तते विरोधिनं ( 1 ) यथाऽन्येषां प्रवाहो मुद्गरादिकं । तेन पूर्वविरोधिनोऽभावे नानिवृत्तेः कथं क्षणिकत्वमिति ।
तदयुक्तं । यतो विरोध्यपेक्षस्वभावत्वं यदि वस्तुनो न पूर्वमपि तदास्य पूर्वोत्तररूपयोर्भेदाद् नित्यत्वमेव । अथ पूर्वमपि स स्वभावोस्ति तदा पूर्वमप्यस्य निवृत्तिः स्यात् । अथ तदा विरोध्यभावान्न निवर्त्तते । कथन्तर्हि विरोध्यपेक्षस्वभावत्वं । सत्येव विरोधिनि । विरोध्यपेक्षस्वभावत्वस्य भावान्नान्यदा । यदि विरोधी वस्तुनो नोपकारकः कथन्तन्तदपेक्षते । उपकारे वा विरोधिसन्निधानेप्यपरस्य भावस्योत्पत्तिरिति पूर्वको भावस्तदवस्थो दृश्येत । विरोधे सन्निधानाभावेनानिवृत्तेः । अथ निवर्त्तते । न तर्हि विरोध्यपेक्षया भावस्य निवृत्तिः ( 1 ) यदि च न भावम्विनाशयति कथविरोधी । न च क्षणिकवादिनां विरोधिसन्निधाने सत्ता तो निवर्त्तते । किन्तर्हि नोत्पद्यते । तथा हि निरोधमुपगच्छन्नेव घटो मुद्गरादिसहकार्यपेक्षः कपालजनकत्वेन सदृशक्षणानारम्भको भवतीति सन्तानानुत्पत्तिर्न तु विरोधिनमपेक्ष्य प्रवाहो निवर्त्तते । यतश्च पूर्वसन्तानेनोत्पित्सोर्भावस्य विरोधिसन्निधाने सन्तानानुत्पत्तिरत एवं मन्दमतीनां सहेतुकनाशाध्यवसायो 134a मुद्गरादौ च विरोधित्वावसाय इति सर्वं सुस्थं । तस्मान्निरपेक्षत्वादेव यत्र नाम
क्वचिद् भवद्दृष्टो विनाशस्तत्रैष स्वभावत एव भवति ।
नन्वहेतुकेपि नाशे यदैव घटादेर्नाशः प्रतीयते तदैवाहेतुकः स्यान्न पूर्वमप्रतीतेरर्थेकक्षणस्थायित्वेन घटादेरुत्पत्तेः पूर्वमपि नाश: ( 1 ) ननु यथैकक्षणस्थायित्वे नोत्पत्तिः स्वहेतुभ्यस्तथा ऽनेकक्षणस्थायित्वेनाप्युत्पत्तिः स्यात् । विचित्रशक्तयो हि सामग्र्यो दृश्यन्ते । तत्र कांचित् स्यादपि याऽनश्वरात्मानं जनयेदित्याह ।