________________
५. शब्द-चिन्ता
३६७ नान्यमपेक्षत ति तद्व्यापी। विनाशकारणानपेक्षोऽयं कथं पतिपद्यतेति चेत् तद्धेतोरसामर्थ्यात् । अभावकारिणः क्रियायाः प्रतिषेधाच्च शब्दः किमु । कथंहि सामर्थ्याभाव इति चेत् । सिद्धे हि भावे कारको न तं करोति । अन्यक्रियां तस्य न किञ्चिदिति तदतद्रूपस्य अकिंचित्करत्वात्, तदतद्भावोऽकिंचित्करोऽपि नापेक्षते।
क्रियाप्रतिषेधस्तु कथमिति चेत् । विनाश इति हि भावस्याभावन्ते मन्यन्ते। . तद् अयं विनाशहेतुरभावं करोतीति प्राप्तम् । तत्र यद्यभावो नाम कश्चित् कार्यस्वभावः स्यात् । स एव भाव इति नाभावः स्यात् । तस्मादभावं करोतीति भावं
वशेन । पश्चादिति यस्मिन् काले नाशस्वभावस्य निश्चयस्तत्कालोपाधिरेव स भावस्य विनाशस्वभावो व्यवस्थाप्यते (।) दृष्टान्तमाह । विकारेत्यादि । यथा विषद्रव्यं गृहीतमपि भ्रान्तिसद्भावात् प्रागनवधारितमज्ञैः पुरुषैः पश्चाद् विषकृतस्य विकारस्य लालाजुत्यादेर्दर्शनेन विषं व्यवस्थाप्यते तद्वत्। एतावन्मात्रेणायं दृष्टान्तो न तु मारणशक्तिर्गृहीता पश्चादवधार्यत इति दृष्टान्तः । तदिति तस्माद् अयम्विनाश इति सम्बन्धः। वस्तुनो या सत्ता तद्वयतिरेकेण न किंचिद् विनाशकारणमपेक्षत इति तद्वयापी सत्ताव्यापी।
कथमित्यादि परः। असामर्थ्याच्चेति प्रतिवचनं । तद्धतोरिति नाशहेतोः । चकारादकारकत्वाच्च। एतदेव विवृण्वन्नाह। अभावकारिण इत्यभावकारितयाभिमतस्य क्रियायाः कारकत्वस्य प्रतिषेधाच्चेति। अवस्तुकारी योभिमतः सोकारक एव भवति । असामर्थ्यन्दर्शयितुमाह। सिद्ध होत्यादि। नाशहेतुर्भावादभिन्नम्वा विनाशं कुर्यात्ततोन्यम्वा। न तावदाद्यः पक्षः सिद्धे हि भावे कारको नाशहेतुस्तम्भावं न करोति सिद्धत्वादेव। नापि द्वितीयः पक्षः। यतो नाप्यन्य- 133b क्रियान्तस्य भावस्य न किञ्चित् । तदवस्थत्वात्। तदतद्रूपेत्यादि । भावरूपस्य ततोन्यस्य च विनाशस्य कारणाच्चाकिञ्चित्करो विनाशहेतुरतो नापेक्ष्यत इति सिद्धमसामर्थ्य ।
क्रियाप्रतिषेधस्तु कथमित्याह। विनाश इति हि भावस्याभावन्ते हेतुमन्नाशवादिनो मन्यन्ते। अस्माभिर्भावस्वभाव एव विनाश इत्युक्तं। तदिति तस्मादयं विनाशहेतुर्विनाशं करोत्यभावं करोतीति प्राप्तं। तत्रैतस्मिन् प्राप्ते सति यद्यभावो नाम कश्चित् स्वभावः कार्यः स्यात् । तदा कार्यत्वादंकुरादिवत् स एव भाव इति नाभावः स्यात् । अथ यथा घटो घटरूपेण कार्यः पटश्च पटरूपेण कार्यों न तु कार्यत्वाद् घटः पटो भवति। तथा भावो भावरूपेण कार्योऽभावोप्यभावरूपेण कार्य: स्यात् । न तु भाव एव भवतीति । तदयुक्तम्भवतीति हि भावो न भवतीति