________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१९८) 479b कदाचित् क्वचित् विरमेत । तस्मान्नेयं कस्यचित् कदाचित् । यस्य' यत्र किंचित्
न प्रतिबद्धम्। सेयं सत्ता क्वचिदप्रतिबन्धिनी चेत् न नियमवती स्यात् । तस्मानेयं सत्ताऽऽकस्मिकी क्वचित् । ____ अथ कथमहेतुको विनाश उक्त इति चेत् । जातस्य तद्भावेऽन्यस्यानपेक्षणत्वात्। न चात्र विनाशो नाम कश्चिद्, भाव एव हि नाशः। ___ स एव हि क्षणस्थायी जातः। तस्माद् मन्दाः तत्स्वभावं तदूर्ध्व व्यवस्यन्ति न प्राक्, दर्शनेऽपि पाटवस्याभावात् इत्युक्तम्। तत्सामर्थ्यात् अविद्या तद्वशेनाविद्याहतदृष्टे नाशवत् पश्चाद् विनाश्यः । तदयं विनाशः सत्ताव्यतिरेकेण
विरमेत। देशकालद्रव्यनियता न भवेदित्यर्थः । ___ एतदेव द्रढयन्नाह। तद्धीत्यादि। तद्धि वस्तु। किंचिदुपलीयेताश्रयेत् । यस्य यत्र किंचिदुत्पादादिकं प्रतिबद्धमायत्तं। न चोपलीयेत यस्य यत्राप्रतिबद्धं । सेयं सत्ता क्वचिदप्रतिबन्धिनी चेत्। द्रव्यकालापेक्षया न नियमवती स्यात्। तथा चाकाशस्येयं सत्ता नात्मनः। आत्मनस्सत्ता न कालस्येत्यादि न स्यात् । यतश्चवन्तस्मानेयं सत्ताकस्मिकी क्वचिन्नित्याभिमतेष्वपि । ____ यदि सत्ताहेतोरेव विनश्वरस्योत्पादः कथमिदानीमहेतुको विनाश उक्त इति व्याघातमाह। ___ जातस्येत्यादिना परिहरति। जातस्य निष्पन्नस्य तद्भावे विनश्वरताभावे जनकाद्धेतोरन्यस्यानपेक्षणात्।
अहेतुको विनाश उक्तः। उक्तं चात्र प्राक् यथा न विनाशो नामान्य एव कश्चिद् भावात् किन्तु भाव एव हि नाशः।
ननु च प्रध्वंसाभावो नाशः स कथम्भावस्वभावो भवतीत्याह।
स एव होत्यादि। यस्मात् स्वहेतोरेव क्षणस्थायी जातस्तस्माद् भाव एव नाश उक्तः। य एव सत्ताकालो भावस्य तमेवैकं क्षणं स्थातुं शीलं यस्य स तथा। न पुनरुत्पद्य क्षणमपि तिष्ठति। यदि तिष्ठेन्न कदाचिन्न निवर्ततेति वक्ष्यामः । यद्येकक्षणस्थायी भावो विनाशः कस्मात् प्रवाहविच्छेदात् प्रागपि तथा न निश्चीयतेऽनिश्चयाच्चाक्षणिकः स इत्याह। तमस्येत्यादि। तं नाशस्वभावमस्य घटादेरासंसारमविद्यानुबन्धात् मन्दा उध्वं प्रवाहविच्छेदकाले व्यवस्यन्ति न प्राक् सत्ताकाले। दर्शनेपोति नश्वरस्वभावस्य सत्यपि दर्शने। न दर्शनकालेऽध्यवसायोस्ति। अविद्या (साम)र्थ्यात्सदृशापरोत्पत्त्या च दर्शनपाटवस्याभावात् । यतश्च सन्तानविच्छेदकाले नाशस्वभावस्य निश्चयस्तस्मात् तद्वशेन निश्चय