________________
५. शब्द-चिन्ता
३६५ स्वभावनिरपेक्षः तस्य क्वचित् कदाचिच्च सत्तायां तत्कालद्रव्यापेक्षः तदपेक्षत्वात् इति निरपेक्ष एव न स्यादित्युक्तम् । अथ विनाशस्य स्वभावः स तदनपेक्षत्वात् निर्हेतुकः स्यात्।
सत्ताहेतुभावादेव तथोत्पत्तेः। सत्ता हि भवतः तादृशस्यैव भावस्याभावात् । नावश्यं सतः कुतश्चिद् भाव इति चेत्, अथ सत्तैव आकस्मिकीति नेयं कस्यचित्
कदाचिच्च विनाशस्याभावं स्वभावेन सत्तया साधयति । सर्वत्र सर्वकालम्भावं साधयतीति यावत्। किं कारणं । यो हीत्यादि। तत्कालद्रव्यापेक्ष इति यस्मिन् काले भवति यत्र वा द्रव्ये । तं कालं द्रव्यञ्चापेक्षत इति निरपेक्ष एव न स्यादित्युक्तं प्राक्। ___ ननु विनाशकहेत्वनपेक्षत्वेन विनाशस्यानपेक्षत्वं, न तु कालाद्यनपेक्षत्वेन (1) तत्कथमुच्यते तत्कालद्रव्यापेक्ष इति निरपेक्ष एव विनाशो न स्यादिति । यदि च कालानपेक्षो विनाशः द्वितीयेपि क्षणे विनाशो न स्यात् तत्कालापेक्षत्वात् । द्रव्यानपेक्षत्वे च कस्य तर्हि विनाशः स्यात्।
एवम्मन्यते (1) जातस्य तद्भावेऽन्योनपेक्षणादिति वचनात् । द्वितीय एव - क्षणे विनाशो भवति नान्यस्मिन् क्षणे। तथा सर्वस्य जातस्य भवति न .. द्रव्यविशेषस्य। तेन द्रव्याऽनपेक्षत्वे कस्य तर्हि विनाशो भवतु (।)
इति निरस्तं। कालान्तरे द्रव्यविशेषे च नाशस्य भावे कालान्तरस्य द्रव्यविशेषस्य च विनाशकत्वमेव स्यात्। विनाशस्य तद्भाव एव भावात् । तस्मात् तत्कालद्रव्यापेक्षत्वे निरपेक्ष एव न स्यादित्युच्यते। । ___ तहीति परः। नेत्या चा र्यः। सत्ताया यो हेतुर्भावस्तस्मादेव तथोत्पत्तेनश्वरस्वभावस्योत्पत्ते । एतदेव स्पष्टयति। सतो हि भवत इति सत्तां प्रतिपद्यमानस्य तादृशस्यैव नश्वरस्वभावस्यैव (1) भावात् । नावश्यं सतः पदार्थस्य कुतश्चित् कारणाद् भाव उत्पादन इति चेत्। केचिद्धि सन्तोपि नोत्पत्तिमन्तो यथाकाशादय इति परो मन्यते। आकस्मिकीत्यहेतुका। नेयं सत्ता कस्यचिदर्थस्य कदाचित् काले क्वचिद् द्रव्ये विरमेत ।
ननु च घटादीनां स्वहेतुतः सत्तानियमे कथमाकाशादिसत्ताप्रसङ्गः।
सत्त्यं (1) किन्तु न कस्यचिद् विरमेतेत्यस्यायमर्थः। न स कश्चिद् भावो यत्स्वभावोसावाकाशादिर्न स्यात् सर्वात्मकः प्रसज्यत इत्येके। तदयुक्तं (1) यदि हि घटादिरूपमाकाशे स्यादहेतुकं स्यात् तस्य मृत्पिण्डादिकमन्तरेण भावात् । तस्मान्नेयमाकाशादेस्सत्ता। कस्यचिदात्मादेः कदाचित् काले क्वचिद् देशे 133a