SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६८) . नियतशक्तिश्च स हेतुः स्वरूपेण प्रतीत एव । न च स्वभावनिश्चयोऽपि अर्थेषु आकस्मिकः। अनपेक्षस्य हि देशकालद्रव्यनिश्चयायोगात्। तथाऽत्रापि नियमहेतुर्वक्तव्यः। यतः केचिन्नश्वरात्मानो जाताः। न चात्र नियामकः स्वभावस्य हेतुरस्ति। यदि सर्वजन्मिनां अनित्यतासिद्धः, जन्मिनामेव स्वभावो विनाशी। न वै जन्म नाशस्वभावहेतु। न चाहेतोः स्वभावनियमः। तस्मान्नात्र हेतोः क्वचित् स्वभावप्रविभागः। तदभावात् फलस्य सतो वा नास्तीत्यसमानम् । सेयं विनाशस्य निरपेक्षता क्वचित् कदाचित् भावविरोधिनी तदभावं सत्तया साधयति । यो हि स्यादेतत् (।) न हेतुकृतः स्वभावभेदो भावानां किन्तु स्वभाव एव कस्यचित् (1) तादृशस्वभावोन्यस्य चान्यादृश इत्याह। न चेत्यादि। आकस्मिक इति निर्हेतुकः। अनपेक्षस्याहेतोः क्वचिद्देशे। क्वचित्काले । क्वचिच्च शालिबीजादौ द्रव्ये शाल्यंकुरोत्पादनस्य स्वभावस्य नियमो न स्यात्। किन्तु सर्वस्य सर्वदा सर्वत्र भवेदपेक्षाभावात्। तस्माद् देशादिकमपेक्ष्य भवन्नियमो हेतुमानिति गम्यते। यथा शालिबीजादीनां स्वभावनियमस्तथात्रापि कृतकेषु, सत्सु वा नियमहेतुर्वक्तव्यो यतो नियामकाद्धेतोः कृतकास्सन्तो वा केचिन्नश्वरात्मानो जाता नान्ये। स्यादेतद् (1) यदि नाम नियामको हेतुर्न शक्यते दर्शयितुन्तथापि सम्भाव्यत इत्याह। न चात्र लोके नश्वरस्य स्वभावस्य नियामको हेतुरस्ति। न सम्भाव्यत एवेति यावत्। सर्वेषां जन्मवतां नाशस्य सिद्धेदृष्टत्वात्। अनियतहेतुको विनाश इति यावत्। 132b यदि सर्वजन्मिनां विनाशसिद्धिरेवन्तर्हि सत्त्वादिति हेतु'रनैकान्तिक: स्यात्त दाह। जन्मीत्यादि। जन्मवतामेव स्वभावो नाशी नाजन्मवतां। नाकाशादीनां सतामपीति परो मन्यते। आ चार्य आह । न वै जन्मति। न हि जन्मवशाद् भावस्य स्वभाव उत्पद्यते। तस्मान्न जन्म नाशस्य हेतुः। नाप्याकाशादौ सत्त्वमस्तीत्याह। न चेत्यादि। अहेतोराकाशादेः स्वभावनियमः स्वरूपनियमोऽहेतोर्देशकालप्रकृतिनियमा योगात्। यतश्च सर्वजन्मिनां विनाशसिद्धिराकाशादीनां चासत्त्वं । तस्मानात्र कृतकेषु सत्सु वा हेतोर्नश्वरानश्वरजनकत्वेन स्वभावप्रविभागः । तद्भावाद्धतुप्रविभागाभावात् फलस्य कृतकस्य सतो वा नश्वरानश्वरप्रविभागो नास्तीत्यसमानं यवबीजादिना। सेयम्विनाशस्य निरपेक्षता क्वचिद् वस्तुनि। कदाचित काले विनाशस्य यो भावस्तेन विरोधिनी करोति तदभावं। तस्य क्वचित
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy