________________
५. शब्द-चिन्ता एकत्वहानेः तदात्मनो हेत्वप्रच्युतौ तदुत्पादने प्रतिबन्धहेतोर्वैगुण्यमकुर्वाणस्य प्रभावात्। न हि यवबीजादयः सापेक्षाः शाल्यंकुरजनने। तदुत्पत्ति प्रत्ययानां कदाचित् तत्रापि सन्निधानात् चेत् कथं निरपेक्षाः ? कथमेषां यत् शालिबीजं तदेव उत्पादनस्वभावः। तदभावात् तत्स्वभावापेक्षा।
एवं तहि कृतकानां च केषांचित् सतां वा यो नश्वरः स एव नास्ति । तस्मात् तत्स्वभावापेक्षत्वाद् न विनश्वराः।
शालिबीजादीनां स्वभावो हि स्वहेतोरिव' यो न तद्धेतुः स न तत्स्वभावः स्यात् । 479a
सामग्रीन्तत्र कार्ये जन्ये। एकत्र भाव इत्यन्त्ये क्षणे। विकारस्योत्पत्तौ वा तस्यान्त्यस्य क्षणस्यैकत्वहानेः पूर्वस्य प्रच्युतेर्विकाराख्यस्य च द्वितीयस्योत्पत्तेः। ततश्च नासावन्त्यः स्यात्। ___ अथ न तस्यान्त्यस्य जनकस्वभावात् प्रच्युतिरिष्यते। तदा तदात्मनो जनकात्मनः। स्वभावादप्रच्युतस्य तदुत्पादनं कार्योत्पादनं प्रति वैगुण्यमकुर्वाणस्य प्रतिबन्धहेतोरप्रतिबन्धकत्वाद् विघातकरणात्।
पुनरपि व्यभिचारमाशंकते। यवबीजादयो न सापेक्षाः (1) कस्मिन् (1) शाल्यकुरे कार्ये जन्ये। कस्मात् (1) तदुत्पत्तिप्रत्ययानां कदाचित् तत्रापि यवबीजादौ सन्निधानात् । ते निरपेक्षा अपि न शाल्यंकुरं जनयन्तीत्यनैकान्तिक एवेति। ___ कथमिति सिद्धान्त वा दी। सापेक्षा एवेत्यर्थः। एषामिति यवबीजादीनां शालिबीजस्य यस्तदुत्पादनः शाल्यकुरोत्पादनः स्वभावः स एवैषां नास्तीतिसम्बन्धः। तत्स्वभावापेक्षा इति शाल्यंकुरोत्पादनस्वभावापेक्षाः। ___कदा च कथं निरपेक्षत्वं स्यादेवन्तीति परः। कृतकानां च केषांचित् सताम्वा केषांचित् । स एव स्वभावो नास्ति यो नश्वरः। तस्मात् तत्स्वभावापेक्षत्वाद् विनश्वरस्वभावापेक्षत्वान्न विनश्वरा इत्यसिद्धत्वं हेतोरिति ।
एतन्निराकर्तुम्प्रक्रमते। शालिबीजेत्यादि। आदिशब्दाद् यवबीजादीनां। स स्वभाव इत्यभिमतेतरकार्य जननाजननस्वभावः स्वहेतोरिति कृत्वा। यो यवबीजादिर्न तद्धेतुः। स शालिबीजहेतुर्यस्य हेतुर्नभवतीत्यर्थः । सोऽतत्स्वभाव इत्यशाल्यंकुरजननस्वभावः। ___ नन्वतद्धेतुश्च स्यात् तत्स्वभावश्चेत्याह। नियतशक्तिश्चेत्यादि । नियता प्रतिनियता शक्तिर्यस्य स तथा (1) स हेतुरिति शालियवबीजजननस्वभावः । स्वरूपेण विभक्तेनैव स्वभावेन प्रतीतः प्रत्यक्षतः ।