________________
३६२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१९८) सामग्री कार्योत्पादने ऽसम्भवत्प्रतिबन्धा।
ननु क्वचित् अनपेक्षाणामपि केषांचित् नावश्यं तद्भाव इति भूमिबीजोदकसामग्रीणामपि अंकुरानुत्पत्तेरिति चेत् । न। तत्रापि हेतुभूतस्य सापेक्षत्वात्। नैवं भावस्य काचिदपेक्षा। तत्रापि अन्त्यायां हेतुसामग्रयां कार्योत्पादने याऽव्यवहिता सा फलवत्येवेति । सैव तु तासां मध्येऽङ्कुरहेतुः। अन्यास्तु पूर्वपरिणामस्तदर्थ एव। ___ न च तां तत्र कश्चित् प्रतिबद्धं समर्थः। एकत्र अविकारानुत्पत्तेः, उत्पत्तौ वा
ऽसम्भवत्प्रतिबन्धा कारणसामग्री कार्योत्पादने। अन्यानपेक्षश्च कृतको भावो विनाश इति स्वभावहेतुः। (१६६-६७)
नन्वित्यादिना नैकान्तिकत्वमाशंकते। क्वचित् कार्येऽनपेक्षाणामपि केषांचित् कारणानां नावश्यन्तद्भाव इत्याह। भूमीत्यादि। सा हि कार्यजननेऽपेक्षा सामग्री। तस्यामसत्यामपि कदाचित् प्रतिबन्धकालेऽङ्कुरानुत्पत्तः। एतच्च सन्तानस्यैकत्वमध्यवसायोक्तं। .
नेत्यादिना परिहरति । तत्र यथोक्तायां सामग्र्यां सन्तानस्य परिणामः स्वभावान्तरोत्पत्तिलक्षणस्तत्र सापेक्षत्वात्। ततोऽनपेक्षत्वादित्यस्य हेतोस्तत्रावृत्तिः । कृतकस्याप्यस्ति विनाशं प्रति कालान्तरापेक्षा ततो हेतुरसिद्ध इत्याह । नैवमित्यादि। कृतकस्य भावस्य नाशे काचित् कालान्तरापेक्षेति वक्ष्यति। ___स्यादेतद् (1) एकस्वभावा एव भूमिबीजादयः कुतस्तेषां सन्तानपरिणामापेक्षत्वं (1) अतो व्यभिचार एव हेतोरित्याह। तत्रापीत्यादि। ____एतदुक्तम्भवति। न भूमिबीजादय एकस्वभावाः पश्चादिव प्रागपि कार्योत्पादनप्रसङ्गात् । किन्तूत्तरोत्तरपरिणामेन भिन्नाः। तत्रेति तस्यां सन्तानपरिणामेन भिन्नायां सामग्र्यामन्त्या या सामग्री। कार्योत्पादने लक्षणान्तरेणाव्यवहिता सा फलवत्येवेति कुतो हेतोरनैकान्तिकत्वं । ___स्यादेतत् (1) पूर्वा सामग्री जनिकापि सती न नियतेत्याह। सैवेत्यन्त्या सामग्री तत्र तासु मध्येऽङ्कुरहेतुर्नान्या काचित् । किमर्थन्तीङकुराथिभिः पूर्वा सामग्र्युपादीयत इत्याह । अन्यास्त्वित्यादि । पूर्वः परिणामः पूर्वोवस्थाविशेषस्तदर्थएवाङकुरजननसमर्थान्त्यसामग्र्यर्थ एव। तेनार्थिभिरुपादीयते सामग्री रूपतया चाध्यवसीयते।
___ स्यादेतद् (1) अन्त्याया अपि सामग्र्याः प्रतिबन्धः सम्भवति। तेन 132a कार्योत्पादनि यमाभावात् साध्यशून्यो दृष्टान्त इत्याह न चेत्यादि। तामन्त्यां