________________
५. शब्द-चिन्ता
३६१
सापेक्षाणां हि भावानां नावश्यंभावतेक्ष्यते ॥१९६।। . भावनाशोऽपि निरपेक्ष एव। सापेक्षत्वे हि घटादीनां केषां चिन्नित्यताऽपि स्यात् । येन--
__ बाहुल्येपि हि तद्धंतोभवेत् कचिदसंभवः। क्वचिद असम्भवः स्यात् । यदि विनाशहतोर्बाहुल्यं तेषामपि स्वप्रत्ययाधीन सन्निधानत्वात् नावश्यं सन्निधानमिति कश्चिन्न नश्येदपि। न हि हेतवोऽवश्यं फलवन्तः वैकल्यप्रतिबन्धभावात्, तेनान्यफलाभावात् ।'
एतेन व्यभिचारित्वमुक्तं' कार्याव्यवस्थितेः ॥१९॥ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
इत्यन्तरश्लोकः। तदयं भावोऽनपेक्षस्तद्भावम्प्रति तद्भावनियतः। तद्यथा सकलकारण
.478b
यदि सहेतुको विनाशस्तदावश्यंभावी न स्यादित्याह। सापेक्षाणामित्यादि। हीति यस्मात् (1) सांपेक्षाणाम्भावानां नावश्यम्भाविता (1) तस्मात् निरपेक्षोभावो विनाशे विनश्वरे स्वभावो हेतूसापेक्षत्वे हि घटादीनाम्मध्ये केषाञ्चिन्नित्यतापि स्यात् । येषां नाशकारणमसन्निहितं । बाहुल्यान् विनाशकारणानां न क्वचिदसन्निधानमिति चेदाह। येनेत्यादि। तद्धेतोरिति विनाशहेतोस्तेषामपि विनाशकारणानां नावश्यं सन्निधानमिति सम्बन्धः। कस्मात् (1) स्वप्रत्ययाधीनसन्निधित्वात् स्वकारणाय'तसन्निधित्वात्। न च विनाशकारणान्तं 131b कारणानि सर्वत्र सन्निहितानि। ततश्च विनाशहेतोरसन्निधानात् कश्चिन्न नश्यदपि। सत्यपि विनाशहेतुसन्निधाने न नियतो विनाशः (1) यतो न झवश्यं हेतवः फलवन्तः विनाशाख्यकार्यवन्तः। कस्मात् (1) सहकार्यसन्निधानं वैकल्यं । विरुद्धोपनिपातः प्रतिबन्धः। एतेन सापेक्षस्य नावश्यम्भावित्वेन व्यभिचारित्वमुक्तं । (१६५-६६) ___सर्वेषां नाशहेतूनां नाशस्य लिङ्गत्वेन ये हेतव उपादीयन्ते तेषां। कस्मात् (1) कार्याव्यवस्थितेः। नाशलक्षणकार्योत्पत्तिनियमाभावात्। हेतुमन्नाशवादिनां हेतुमन्तन्नाशं ये वदन्ति तेषां। यतश्चाहेतुको विनाशः। तत्तस्मादयम्भावः कृतकोनपेक्षस्तद्भावम्प्रति विनश्वरस्वभावम्प्रति। तद्भावनियतो निवृत्तिधर्मकतायां नियतः। दृष्टान्तमाह (1) असम्भवेत्यादि। न सम्भवति प्रतिबद्धो यस्यां सा कारणसामग्री। सकलेति सहकारिप्रत्ययेन सन्तानपरिणामेन च परिपूर्णेत्यर्थः। प्रयोगस्तु। ये यद्भाव प्रत्यनपेक्षास्ते तदभावनियताः। तद्यथा