________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १|१६६ )
कथमिदानीं कृतकोऽवश्यमनित्त्य इति येन उच्यत इति । एवं-हेतुत्वाद्विनाशस्य स्वभावादनुबन्धिता ।
न हि विनश्वरं वस्तु तद्भावे हेतुमपेक्षते । स्वहेतोरेव विनश्वराणां भावात् । तस्माद् यः कश्चित् कृतकः स स्वभावेनैव नश्वरः ।
तथा हि वस्तु --
३६०
मनियमं साध्यात्मनियममर्थादुक्तिसामर्थ्यादाक्षिपति । इति हेतो: सिद्धोन्वयः ।
कथमित्यादि परः । इदानीमिति निश्चिते व्याप्यव्यापकभावे गमको हेतुरित्यभ्युपगमे सतीत्यर्थः । कथं केन प्रमाणेन कृतकोवश्यमनित्य इति प्रत्येतव्यो निश्चेतव्यो येन त्वयैवमुच्यते । कृतकः शब्दोऽनित्यः । यत्कृतकन्तदनित्य - मित्येवं पृष्टो व्याप्तिविषयं बाधकं प्रमाणन्दर्शयितुमाह । यस्मादित्यादि । यस्माद् विनाशस्य निवृत्तिधर्मकत्वलक्षणस्य स्वभावात् स्वरूपमात्रादनुबन्धिता। यद्वा भवत्यस्मादिति भावः (।) स्वो भाव: स्वभाव: स्वहेतुरित्यर्थः । तस्मादेवानुबन्धिता विनाशस्य वस्तुनि सद्भावस्तस्मात् कृतकोऽनित्यः । कुत एव तदहेतुत्वाद् यतो न जनकाद्धेतोरन्यो विनाश 'स्य हेतुः ( 1 ) तस्मात् स्वभावादनुबन्धः ।
तदयमत्र समुदायार्थः । मुद्गरव्यापारानन्तरं द्वयं प्रतीयते घटनिवृत्तिः । कपालं च (1) तथैते विनाशरूपतया प्रतीयेते । तत्र घटनिवृत्तेर्नीरूपत्वेनाकार्यत्वादिति वक्ष्यति। तत्कार्यत्वेन तु प्रतीतिभ्रान्तिरेव । कार्यत्वे वास्या न घटनिवृत्तिरूपत्वं स्यात् । घटसम्बन्धित्वेन कृतकत्वात् । विनाशरूपतया च न प्रतीतिः स्यात् घटस्य सत्त्वात् । कपालस्यापि मुद्गरकार्यत्वे सत्यपि विनाशरूपता । घटस्यानिवृत्तत्वादिति च वक्ष्यति । ततश्च कथमस्य विनाशरूपतया प्रतीतिः । निर्हेतुके तु विनाशे स्वरसतो निवर्त्तमान एव घटो मुद्गरादिसहकारी कपालजनकत्वेन सदृशक्षणानारम्भकत्वात् मुद्गरव्यापारानन्तरं घटनिवृत्तेः कपालस्य * च सद्भावात्तयोर्विनाशरूपतया विनाशस्य च सहेतुकत्वेन मन्दमतीनाभवसायो युज्यत एव ।
मुद्गरव्यापारानन्तरं सन्तानविच्छेदात् । तत्कथं निर्हेतुकविनाशाभ्युपगमवादिनां प्रतीतिबाधा चोद्यत इति । एतमेवार्थमाह । न हीत्यादि । नश्यन्त इति येषान्तावत् कृतकानां नाशो दृश्यते ते विनश्यन्तः । तद्भावे विनश्वरस्वभावे स्वरूप जनकादन्यत्र हेतुमपेक्षते । कुतः । स्वहेतोरेव विनश्वराणां निवृत्तिधर्माणां भावात् । यतश्च नश्वरस्वभावं प्रत्यनपेक्षता भावानान्तस्माद् यः कश्चिद् कृतकः . स स्वभावेनैव नश्वरः । ( १६५-६६ )