________________
५. शब्द - चिन्ता
३५६ व्याप्तं कथितमिति शब्दोऽपि कृतकत्ववचनसामर्थ्यादेवानित्यः शब्द इति भवति । तस्मान्नावश्यं पक्षो निर्देश्य: 7 । अयं हि अन्वयी प्रयोगः ।
व्यतिरेकेऽपि इति श्रनित्यत्वाभावे कृतकत्वस्याभावः । शब्दः कृतक इति तत्स्वभावसिद्धः । तदभावे न भवतः कृतकत्वस्य शब्दे च भाव - ख्यातौ तदात्मनो भावः, सामर्थ्यात् सिद्धः पूर्वत् प्रतिज्ञावचनं प्रकृतक इति ।
अन्वयस्तु प्रर्थापत्त्या सिद्धः । तदात्मनियतस्य तन्निवृत्तौ तन्निवृत्तेः । नियमं प्रसाध्य निवृत्तिर्वक्तव्या ।
सा चेत् सिद्धा, तदात्मनियमं प्रर्थादाक्षिपतीति सिद्धोऽन्वयः ।
व्याप्तिकथनेनार्थान्नित्याद् व्यावृत्तिः कृतकत्वस्योक्तेति व्यतिरेकमतिः । शब्दश्च कृतक इति पक्षधर्मकथनं । पक्षः कस्मान्नोच्यत इत्याह । कृतकस्येत्यादि । अनित्यत्वेन व्याप्तं कृतकत्वं यदा शब्देन कथितन्तदा नियमेन स्वं व्यापकं सन्निधाप'यतीति सामर्थ्यादेवानित्यः शब्द इति भवति । तस्मान्नावश्यमित्यादि । इहेति साधर्म्यप्रयोगे (1)
वैधर्म्यवन्तं प्रयोगमाह । व्यतिरेकेपीत्यादि । एतच्चाकार्यम्वा ऽविनाशीत्येतस्य विवरणं । इहापि न प्रतिज्ञावचनं । यस्मात् सिद्धस्वभावतया निश्चितया नित्यस्वभावतया हेतुभूतया । तदभाव इत्यनित्यत्वाभावे सति न भवतः कृतकत्वस्य शब्दे च भावख्यातौ सद्भावकथने कृते सति तदात्मनः सत इत्यनित्यस्वभावस्य सतः कृतकत्वस्य शब्दे भाव इति । सामर्थ्यादनित्यः शब्द इति सिद्धेः । पूर्ववदिति साधर्म्यप्रयोगवत् ।
नन्वत्र वैधर्म्यप्रयोगेऽन्वयो नोक्त इत्याह (1) अन्वयस्त्वित्यादि । अन्वयमन्तरेण वैधर्म्यस्यानुपपत्तिरर्थापत्तिः । किङ्कारणं ( 1 ) न हीत्यादि । यस्मादतदात्मनियतस्यानित्यस्वभावेऽप्रतिबद्धस्य । तन्निवृत्तावनित्यत्वनिवृत्तौ निवृत्तियुक्ता । यत एवन्तस्मात् स्वयन्तादात्म्यतदुत्पत्तिभ्यां हेतोः साध्ये नियमं प्रमाणेन प्रसाध्य साध्यनिवृत्त्या मूढं प्रति हेतोर्निवृत्तिर्वक्तव्या ।
तेन यदुच्यते ( 1 ) “प्रमाणेन चेन्नियमः प्रसाधितः किन्निष्फलेन निवृत्तिवचनेन । कथं वा नियमं न प्रतिपद्यते । न तु तन्निवृत्तौ निवृत्तिमिति तदपास्तं ।
478a
अन्ये त्वन्यथा व्याचक्षते । प्रसाध्य शब्दार्थादाक्षेपवचनस्तेनायमर्थो नियमं प्रसाध्य नियममर्थादाक्षिप्य निवृत्तिर्वक्तव्येति । तथाभूतेन वचनेन निवृत्तिर्वक्तव्या । निवृत्त्युक्तिः सामर्थ्यान्नियममाक्षिपतीति । अत एवाह । सा चेत्यादि । सेति नियमस्याक्षेपिका निवृत्तिः सिध्यति परम्प्रति । यदि तथा 'भूतेन वचनेन प्रकाशते । तदा- 1312