________________
३५८
__ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६५)
उक्तं वेदितव्यम्।
द्विविधो हि प्रयोगः साधर्म्यवानेव वैधर्म्यवान् च। यदन्ये अन्वयी व्यतिरेकी चेत्याहुः । नानयोः अन्यत्र संयोगभेदात् अर्थतः कश्चिद् अपि भेदः । साधयेणापि प्रयोगेऽर्थाद् वैधर्म्यवतो गतिः। असति तस्मिन् साध्यहेत्वोरन्वयाभावात् । एवं साधर्म्यवतोऽन्वयगतिः स्यात् । तस्मिश्चासति साध्याभावश्चेत् हेत्वभावे शंका स्यादिति विस्तरेण वक्ष्यामः। उदाहरणं
(१) निर्हेतुकविनाश: अनित्यत्वे यथा कार्यमकायै वाऽविनाशिनि ।।१९५।। एतेन च अनयोर्द्वयोरुदाहरणमुक्तम् । तत्रान्वयी “यश्च कश्चित् कृतकः स सर्वोऽप्यनित्त्यः।" यथा घटादिः। शब्दश्च कृतकः। एवं कृतकत्वमनित्यत्त्वेन
अनेनानन्तरोक्तेनानुवर्त्यानुवर्तकभावस्य निवर्त्यनिवर्त्तकभावस्य च प्रदर्शनेन द्विविधस्यापि साधर्म्यवतो वैधर्म्यवतश्च साधनप्रयोगस्य गमकलक्षणं साध्यसाधकत्वलक्षणमुक्तम्वेदितव्यं ।।
तद्वयाचष्टे । द्विविधो हीत्यादि। यथाहरेके इति नै या यि काः। साधर्म्यवानेव हि प्रयोगोन्वयी। वधर्म्यवानेव च व्यतिरेगी ।
ननु साधर्म्यप्रयोगे पक्षधर्मत्वमन्वयश्चेति (1) तथा वैधर्म्यप्रयोगेपि पक्षधर्मत्वं व्यतिरेकश्चेति द्विरूपन्तर्हि लिङ्गम्प्राप्तमित्याह । नानयोरित्यादि । अनयोरित्यन्वय
व्यतिरेकिणोर्हेत्वोर्वस्तुतः परमार्थतो न कश्चिद् भेदः। द्वयोरप्यन्वयव्यतिरेकवत्त्वात्। 13ob अन्यत्र संयोगभेदात्। तस्मात्तावेवान्वयव्यतिरेको कदाचित्साधर्म्यप्रयोगेण
प्रतिपाद्यते कदाचिद् वैधर्म्यप्रयोगेणेति प्रयोगमात्रम्भिद्यते न त्वर्थः । किं कारणं (1) यस्मात् साधयेणापि हि प्रयोगेऽर्थात् सामर्थ्यात्। साध्यविपक्षाद्धेतोर्व्यावृत्तिर्वैधर्म्यन्तस्य गतिः। ___तदेव सामर्थ्यमाह। असतीत्यादि। तस्मिन्निति वैधयें। एवं हि साध्येनान्वितो हे'तुः स्याद् यदि साध्याभावे न भवेत्। तथा वैधर्म्य इति वैधर्म्यप्रयोगे। तस्मिन्नित्यन्वये यदि हि साध्येन हेतोरन्वयः स्यात् तदायं साध्यनिवृत्तौ निवर्तेत । एतच्च व्य ति रे क चि न्ता याम्वक्ष्यामः। (१६४-६५) ___अनित्यत्वे यथा कार्य। अनित्य एव कृतकत्वं। एतच्चान्वयिन उदाहरणं । अकार्यम्वा। अविनाशिनीति व्यतिरेकिण उदाहरणं। तेनायमर्थो भवति (1) अविनाशिनि विनाशाभावे सति । अकार्य कृतकत्वन्न भवति। तदेवाह (1) अनेनेत्यादि । अनयोरित्यन्वयव्यतिरेकिणोः। यत्किञ्चिदिति सर्वोपसंहारेण