________________
५. शब्द - चिन्ता
योरभाव इति नायं प्रसंग: । व्याप्तौ धर्मसमाश्रये वाऽनिश्चिते सति तत्स्वभावतया गमको न स कश्चिदपि गमकः स्यात् । श्रतएव स्वधर्मेण व्याप्तः सिद्धः ? 477b स्वभावो गमको वाच्यः ।
३५७
प्रकाशतया प्रदीपो हि प्रकाशकः, तद्रूपाप्रतिपत्तौ स्वामर्थक्रियां करोति । सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः ॥ १९४॥
तद्धर्मनिश्चयादेव' |
व्यापित्वनिश्चये हि तद्धर्मिणो धर्मः गम्यस्वभावः । श्रयं निवृत्तावपि तनिवर्त्तकः । तस्यायं व्यापको धर्मः स्वयं निवर्त्तमानो व्याप्यस्य तस्य धर्मस्य निवर्त्तकः । यद्यस्याभावे न भवेत्, एवं ह्यस्य व्यापकः सिद्धो भवति ।
तस्माद् एतेन गमकलक्षणेन द्विविधस्यापि साधनप्रयोगस्य गमकलक्षणं
व्यतिरेकमुखेण (? न ) वा यदि निश्चीयते । न विरोधव्यभिचारौ । न विरुद्धत्वमनैकान्तिकत्वम्वा (1) इति हेतोर्नायं प्रसंगोसिद्धि (? द्ध) विरुद्धानैकान्तिकलक्षणः । अनिश्चितायान्तु साध्यधर्मेण लिङ्गस्याव्याप्तौ । धर्मिसमाश्रये वा पक्षधर्मत्वे asनिश्चिते सति तत्स्वभावतया निश्चितत्रैरूप्यस्वभावतया यो गमकोऽभिमतो हेतुर्न स कश्चिद् गमकः । अत एव कारणात् स्वधर्मेण स्वेन साध्यरूपेण व्याप्तः साध्यधर्मिणि सिद्धो निश्चितो हेतुस्वभावो वाच्यः ।
एतदेव द्रढयन्नाह । न हीत्यादि । प्रकाशतया प्रभास्वरतया घटादीनप्रकाशयन्ं यदा कदाचिद् घटाद्युदरान्तर्वर्त्ती भवति तदा तद्रूपाप्रतिपत्तौ प्रभास्वरताऽप्रतिपत्तौ सत्यां स्वामर्थक्रियां घटादिप्रकाशनलक्षणां न हि करोति ।
मकस्वरूपमभिधायाधुना गम्यस्वरूपमाह । व्यापकस्तस्येति । योसौ गमको व्याप्यः स्वभावस्तस्य व्यापक: स्वभाव: निश्चितो गम्यः ।
. तद्धर्मेत्यादिना व्याचष्टे । धर्मिणो धर्मो गम्य: ( 1 ) कीदृशस्तस्य गमकत्वेनाभिमतस्य व्यापकत्वेन निश्चितः । कथं पुनर्व्यापकत्वेन निश्चित इत्याह । तद्धर्मनिश्चयादेव व्याप्यधर्मनिश्चयादेव ।
इयता गम्य गमकयोः स्वरूपन्दर्शितं ।
निवर्त्यनिवर्त्तकयोरपि स्वरूपमाह । तस्येत्यादि । अयमिति व्यापको धर्मः स्वयं निवृत्तौ सत्यां तस्य व्याप्यस्य निवर्त्तकः ।
तस्येत्यादिना व्याचष्टे । अयं व्यापको धर्मः स्वयन्निवर्त्तमानस्तस्य व्याप्यस्य निवर्त्तक इति सम्बन्धः । किङ्कारणं । यस्मादेवं ह्यस्यायं साध्यो धर्मो व्यापकः सिद्धो भवति । यद्यस्य व्यापकस्याभावे व्याप्यो न भवेत् । तदिति वाक्योपन्यासे ।