________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१९४) तद् अव्यवच्छेदमात्रं द्वयोरपि भावाभावयोः विपक्षवृत्तिशङ्काव्यवच्छेदेन गमकत्वं लभ्यं कथमात्मसात् कुर्यात् । स च स्ववाचा उभयधर्मतां ब्रुवाणः सतोऽन्यत्रापि अस्य वृत्ति भाषते सत्तायामव्यभिचारवचनं इति कथं न व्यभिचारः ? सत्तायां प्रभावधर्मस्तु भावमात्रव्यापिनोऽर्थस्य व्यवच्छेदस्य हेतुवचनमत्र विरुद्धहेतौ स्यात्। तस्य च वस्तुनः क्वचिदभावाद् अभावे भावव्यवच्छेदस्य सत्त्वात् । तस्मादयं त्रिप्रकारोऽपि धर्म:4 सत्तायाः साधनेन हेतुलक्षणाश्रयं विना न चान्या गतिः। तस्मान्न सत्ता साध्यते। तन्मात्रव्यापिनि भावधर्मस्यात्र सामान्यसाधनत्वेऽपि सिद्धसत्ताके मिणि नासिद्धिः ।
। तेन च साध्यधर्मेण व्याप्तिः कथंचिद् वा यदि निश्चीयते विरुद्धव्यभिचार
विधिविषयत्वन्निरुपाख्यस्य नेति चेत् । कथमिदानीमभावो न प्रतिषेधविषयः। विधिविषयत्वनिषेधादेव हि प्रतिषेधविषयत्वं । किं कारणम् (।) विधिनिवृत्तिरूपत्वात् प्रतिषेधस्य। तदिति तस्मादेतदनन्तरोक्तमव्यवच्छेदमात्रं द्वयोरपि भावाभावयोः सम्भवत् सत्त्वे साध्ये गमकत्वं कथमात्मसात् कुर्यात् । किम्बिशिष्टं गमकत्वं । विपक्षेत्यादि । विपक्षे प्रयोगे वृत्तिर्हेतोस्तस्य शङ्का तस्या अपि व्यवच्छेदेन न लभ्यन्न चोभयधर्मस्य व्यवच्छेदमात्रस्य विपक्षाद् व्यावृत्तिरस्तीति कथन्तद् गमकत्वमात्मसात् कुर्यात् । स च वादी स्ववाचान्यवचनेन। सत्तासाधनस्य हेतोरुभयधर्मतां ब्रुवाणस्सतः साध्यादन्यत्राप्यसति अस्योभयधर्मस्य हेतोवृत्तिम्भाषते (1) स एव च सत्तायां साध्यायामव्यभिचारनिबन्धनत्वाद् गमकत्वस्येत्यव्यभिचारम्भा (?) एत इति हेतोः कथं नोन्मत्तः।
अभावधर्मन्तु हेतुं सत्तायाम्वदतोस्य वादिनो विरुद्धः स्यात् । सत्त्वविपरीतस्यासत्त्वस्य साधनात् । कः पुनरस्यैव अभावस्यैव धर्म इत्याह। व्यवच्छेद कीदृशम्भावमात्रव्यापी सामर्थ्यलक्षणस्तस्य व्यवच्छेदो नियमेनाभावस्यैव भवति (1) न तु मूर्त्तत्वादेर्व्यवच्छेदस्तस्यैवोभयधर्मत्वात् । कस्माद्विरुद्ध इत्याह।
तस्य भावमात्रव्याप्यर्थव्यवच्छेदस्य भावे क्वचिदभावादभावे च सर्वत्र भावाद 130a विरुद्धत्वं । तस्मादयं त्रिप्रकारोपि भावाभावोभयसम्बन्धी धर्मः सत्ता यास्साध्रनेन
हेतुलक्षणमुक्तः। न च त्रिप्रकारादधर्मादन्या गतिरन्यः प्रकारोस्ति यतस्तस्मान्न सत्ता साध्यते। साधनत्वे लिङ्गत्वेऽस्यास्सत्तायाः सामान्येनानुपात्तविशेषणत्वेन। सिद्धसत्ताके धर्मिणि नासिद्धिः। अनित्यत्वादिके वस्तुधर्मसाध्ये। किम्विशिष्टे तन्मात्रव्यापिनि। तेन च साध्यधर्मेण लिंगस्य व्याप्तिः। कथंचिदित्यन्वय मखेन