SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ५. शब्द-चिन्ता ३५५ नातिवर्तते। तत्र भावधर्मो हेतुरादिष्टोऽपि कथमसिद्धसत्ताके स्यात्। यो हि तत्र भावधर्ममिच्छति स कथं भावं नेच्छेत् ? कदाचिदस्वभावस्यैवापेक्षया धर्मिणि व्यतिरेकीव धर्मो निर्दिश्यते। धर्ममिवचनशब्दानां वाच्यार्थे निश्चयज्ञानविषय एव न कश्चिदपि विशेष इत्युक्तम्। यथा उभावपि धर्म इति वचने नहि वस्तुनि अनाश्रितेऽविरोधेन प्रतिषेधमात्रस्याभावेऽपि अविरोधात् । यथा न भवति मूर्त्तमिति अमूर्त्तत्वं निरुपाख्येऽपि' स्यात् । 477a यदि निरुपाख्याभावान्न प्रतिषेधविषयत्वम्। ततः किं विधिविषयोऽस्ति । तदपि नेति चेत् । कथं न स प्रतिषेधविषयः? विधिनिवृत्तिरूपत्वात् प्रतिषेधस्य । मिति विरुद्धतां। तत्र भावधर्मो हेतुरसिद्धसत्ताके कथं सिध्येत्। __ स्यादेतद् (1) भावधर्मः प्र धा ना देस्सिद्धो न तु भाव इत्याह। यो ही• त्यादि। यो हि प्रधानादिभावधर्महेतुन्तत्र प्रधानादाविच्छति स कथं वादी प्रधानादिकम्भावं सिद्धं नेच्छेत् । तस्माद् भाव एव धर्मः। कथन्तर्हि भावस्यायं धर्म इति कथ्यत इति चेदाह। कदाचिदपेक्षयेति भेदान्तरप्रतिक्षेपलक्षणया व्यतिरेकीव भिन्नरूप इव धर्मिणः सकाशाद् धर्मो निदिश्यते । यथा कृतकत्वमस्ये- 120b त्यकृतकव्यावृत्त एव भाव उच्यते। नत्वन्य एव धर्मो धर्मशब्देनोच्यतेऽन्यश्च धर्मी धर्मिशब्देनेत्याह। न हीत्यादि। यस्मादन्यव्यावृत्तिनिरपेक्षः पुमान् यदा शब्दस्याकृतकादेवैकस्माद् व्यावृत्ति जिज्ञासते। तदा कृतकत्वमस्येत्युच्यते। यदान्यव्यावृत्तिसाकांक्षोऽकृतकत्वादेवैकस्माद् व्यावृत्ति जिज्ञांसते तदा कृतक: शब्द इत्युच्यत इति। एतच्च प्रागेवोक्तम् (1) भेदान्तरप्रतिक्षेपाप्रतिक्षेपेत्यादिना। अथ पुनरुभयोर्भावाभावयोर्द्धर्म हेतुम्ब्रूयात् । कथं पुनरेको धर्मो भावाभावयोर्भवति (1) धर्मो हि स्वभावो यश्च भावस्य स्वभावः कथमभावस्य स्यादित्याह। अनाश्रितेत्यादि (1) अनाश्रितम्वस्तु यस्मिन् व्यतिरेकमात्रे तस्य व्यतिरेकमात्रस्य प्रतिषेधमात्रस्य धर्मत्वेन कल्पि तस्याभावेप्यविरोधात्। व्यतिरेकमात्रमेव कथम्भवतीत्याह। अपर्युदासेन प्रसज्यप्रतिषेधेन। प्रसज्योपसर्जनो विधिः पर्युदासः स चेह नाश्रितः। यथा न भवति मूर्त इत्यमूर्त्तत्वं मूर्त्तत्वनिवृत्तिमात्रं भावेपि विज्ञाने निरूपाख्येप्यभावेपि स्यात् । परः प्रतिबद्धमाह। निरुपाख्याभावान्न प्रतिषेधविषयत्वं । यदधिकरणादिशक्तियुक्तन्तत्कस्यचिद्विषयः स्यात् । निरुपाख्यं च सर्वशक्तिरहितन्तत्कथम्विषयः स्यात्। संप्रति प्रतिषेधविषयत्वे प्रतिषिद्धे किम्विधिविषयोस्ति निरुपाख्यं । तदपि
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy