________________
३५४
प्रमाणवात्तिकस्ववृत्तिटीका (१।१९४) अपरामृष्टतद्देदे वस्तुमात्र तु साधने ॥१९२॥
तन्मात्रव्यापिन: साध्यस्यान्वयो न विहन्यते । स्वभावविशेषापरिग्रहेण साधनसत्तायामपि वस्तुमात्रव्यापिनि साध्यधर्मे नान्वयव्याघातः।
न हि तत्रावश्यं विशेषपरिग्रहक्रिया। सत्तामात्राश्रयेऽपि साधने सामर्थ्यात् साध्यत्वमेव वैफल्यात्। अपि च
नासिद्धे भावधर्मोस्ति व्यभिचार्युभयाश्रयः ॥१९३॥
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् । सत्तासाध्ये तद्धेतुः सर्वत्र प्रत्ययः त्रयीं दोषजाति प्रसिद्धव्यभिचारविरुद्धं
साधनं पुनः सर्वमत्रमनुद्दिष्टमिति प्रतिपादयितुमाह। अपरामृष्टेत्यादि। अपरामृष्टोनुपात्तस्तभेदः। यस्मिन् वस्तुमात्रे सत्तामात्रे । तस्मिन् साधने क्रियमाणेन्वयो न विहन्यते। कस्य (1) तन्मात्रव्यापिनः सत्तामात्रव्यापिनस्साध्यस्य। तदेव विवृण्वन्नाह। वस्तुमात्रव्यापिनि साध्यधर्मे। स्वभावविशेषापरिग्रहेण पुनस्सत्त्वे क्रियमाणे नान्वयव्याघातः। न साध्यशून्यो दृष्टान्त इत्यर्थः। ____ न हि तत्रेति। सत्त्वे साधने । कस्मात् (।) सन्मात्राश्रयेपि सत्त्वमात्रस्य हेतुत्वेनाश्रयणेपीत्यर्थः । न पुनः साध्यत्वे सत्ताया विशेषानाश्रयः (1) कस्माद् (1) वैफल्यात् (१६२-६३ )
सत्तायां साध्यायां पुनर्दोषान्तरन्दातुमाह। अपि चेति। असिद्धे प्रधानादौ धर्मिणि न भावधर्मोस्तीत्यसिद्धो हेतुः। यस्तु भावाभावोभयाश्रयो धर्मः स सत्त्वे साध्ये व्यभिचार्यनैकान्तिको योप्यभावस्य धर्मः स सत्त्वे साध्ये विरुद्धो सत्त्वस्यैव साधनात् । यस्यां प्रधानादिसत्तायां साध्यायां हेतुर्यः कश्चिदुपादीयते स सर्वो दोषत्रयं नातिवर्त्तते (1) सा सत्ता साध्यते कथं । इह च हेतोः सिद्धत्वमभ्युपगम्य विरुद्धानकान्तिकान्तिकत्वे उक्ते हेत्वसिद्धावनयोरसम्भवात् । (१६२-६३) __ननु सर्वज्ञादिसत्तायामपि साध्यायां हेतोरसिद्धतादिदोषस्य तुल्यत्वात् कथन्तत्सत्तासिद्धिः।
नैष दोषः। यद्यदुपदिश्यते तज्ज्ञानपूर्वकमेव यथाऽन्यत् किञ्चित् । उपदिश्यते च चतुरार्यसत्यं । तस्मात्तदपि ज्ञानपूर्वकमेव यस्य तज्ज्ञानं सोस्माभिः सर्वज्ञोभ्युपगम्यत इति। न कश (? काचित्) क्षतिः। तद्धेतुरिति सत्ताहेतुः । त्रयीमिति यवयवान्दोषजातिन्दोषप्रकारान्नाभिवर्तते। तामाह। असिद्धमित्यादि। विरोध