________________
५. शब्द-चिन्ता
३५३
476b
शेन न किञ्चित् प्रयोजनम्। तत्र दर्शनात् सम्बन्धाख्यानमात्राच्चेष्टस्य सिद्धेः। तदनिर्देशे च कथं तद्विशिष्टेऽन्वयः ? तद् अयं अग्न्यविनाभावितया सिद्धः । अर्थात् अग्निरेव प्रदेशेनायोगं व्यवच्छिनत्ति। तस्मात् स एव तथा साध्य उच्यत इति ।
न पुनस्तथोपन्यासपूर्वकोऽन्वयः। साध्योक्तेरिहानङ्गत्वात्। तत्पर्वगामिनि प्रतिज्ञासाधनेन कश्चिदपनयेत्' । तथा चाह--
"अन्यत्रा व्यभिचारेऽपिधर्महेतुं हि दर्शयेत् ।
तत्र तेन प्रसिद्धिमत मिणं गमयिष्यति ॥" तस्मात् यथाग्निसाधनं नैव सत्तासाधनमपि प्राप्तम् । ..निश्चिताव्यभिचारं च लिंगं तत्र प्रसिद्धिमत् तेन व्यापकधर्मेण मिणं गमयिष्यति ।।
धर्मिणि स्वयं स्वेन रूपेण दृश्यते तत्रैवाग्निबद्धिञ्जनयति। तत्रैतस्यां सामर्थ्या• दनुमेयप्रतीतौ साध्यनिर्देशेन न किञ्चित् प्रयोजनन्तेन विनापि साध्यसिद्धेः
एतदेवाह। तत्रेत्यादि। तत्र साध्यमिणि लिङ्गस्य दर्शनात् सम्बन्धाख्यानमात्राच्चेष्टस्य साध्यस्य सिद्धेः । यतश्च न साध्यस्य धर्मर्मिसमुदायस्य निर्देशस्तदा , तदनिर्देशे च कथन्तद्विशिष्टे साध्यधर्मेणान्वयः (1) नैव (।) यतोनन्वयदोषः स्यात् । तदिति तस्मादयन्धूमोग्न्यविनाभावितया सिद्धः सामर्थ्यादेव तेन प्रदेशेनायोगम्ब्यवच्छिनत्ति। तस्मात् समदायः साध्य उच्यते।
यदि हि तत्र नाग्निः स्यान्नैव धूमो भवेदिति सामर्थ्यं । अन्वय स्तु केवलेनैव साध्यधर्मेण दर्शनीयो न साध्यधर्मर्मिसमुदायेन । तस्य दृष्टान्तेऽसिद्धत्वात्। समुदायेन च व्याप्तिप्रदर्शने प्रयोजनाभावात्। अत एवाह। न पुनर
स्यास्तथेति प्रदेशविशिष्टस्योपन्यासपूर्वकोन्वयः। किं कारणं (1) साध्योक्ते . : रिहान्वयप्रदर्शनकालेऽनङ्गत्वात्। साध्यनिर्देशपूर्वकाले वान्वयस्येष्यमाणे नैव सा'धनवाक्यात् कश्चित् प्रतिज्ञावाक्यमपनयेत् ।
129a ___ तस्मात् स्थितमेतत् (।) पक्षमनुप्रदश्र्यैव साध्यधर्मेण लिङ्गस्य व्याप्तिः कथनीयेति । तथा चाह आचार्य दि ग्ना गः । “लिंगस्य धूमादेः साध्येनाव्यभिचारोन्यत्र सामान्ये न धर्मिमात्रे दर्शयितव्यः। निश्चिताव्यभिचारं च लिङ्गन्तत्रे"ति साध्यमिणि प्रसिद्धं सत् । तेन व्यापकधर्मेण युक्तं साध्यमिणं गमयिष्यति ।
तस्मादित्यादिनोपसंहारः। यथाग्निसाधनम्विशेषपरिग्रहादनवद्यं नैव सत्तासाधनमनवद्यं विशेषासिद्धैः। तदेवं सिद्धसाध्यताप्रसंगादनन्वयाच्च न प्रधा ना देः सत्ता साध्या।
४५